SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । १८५ 'सन्निहितकलत्राणामनुचितमिति बाह्यलोकसंवदनात् । अन्यस्मिन्नुदवसिते विसर्जितामिष्टमालतीकेन ॥ ६०१॥ लोकेन हास्यमानां विभ्राणां वाससी जलक्लिने । रूपमदमुत्सृजन्ती वैलक्ष्याद्विहसितेन नतवदनाम् ॥ ६०२॥ पश्चात्तापगृहीतां कण्टकदर्भाग्रभिन्नपादतलाम् । अस्मद्वचः स्मरन्तीं द्रक्ष्यन्त्यभिसारिका सुकर्माण' ॥६०३ ॥ एवं कृतेऽपि कामुकदर्शनालब्धि अनुमितां वदति संनिहितेति । एवं नायके निवे दितामपि उत्तरलब्धेः प्राक्, बाह्यलोकसंवदनात् बाह्यलोक: प्रातिवेषिकाः रथ्याचारिणो वा जनाः, ये प्रायः छिद्रान्वेषणतत्पराः, तेषां संवदनात् परस्परेण संवादात् आलापात्, "स्यात् संवदनमालोचे संवादे च वशीकृतौ ।" इति विश्वलोचनः, कीदृशात् , सपत्नीकानां अन्यरमण्याह्वानं अयोग्यं इत्याकारकात् , इष्टमालतीकेन इष्टा नायकसमागमनाय मालती येन तादृशेन विटेन रहस्यवेदिना सेवकेन वा, अन्यस्मिन् परकीये,] उदवसितं गृहं [तस्मिन् , विसर्जितां अपनीतां, सर्वथा अप्राप्तेष्टसमागमां इति यावत् ॥ ६०१ ॥ अत एव, लोकेन प्रेक्षकैः इत्यर्थः, हास्यमानां हास्यविषयीक्रियमाणां; जलार्द्र, वसने-एकं परिधानं अंतरीयं अधोंशुकं अपरं उत्तरीयं उपरिवस्त्रं इति द्विवचनं, धारयन्तीं; रूपमदं सौंदर्यहेतुकविकारविशेषं "मदो विकारः सौभाग्ययौवनाद्यवलेपजः । " ( ७५ ) इति रसरत्नहारे; उत्सृजन्ती परित्यजन्ती, वैलक्ष्यात् इष्टासिद्धया लजातिरेकात् , वैलक्ष्यं च"आत्मनश्चरिते यस्य ज्ञातेऽन्यैर्यत्र जायते। अपत्रपे(पा?)तिमहती तद्वैलक्ष्यमुदाहृतम् ॥ " इति उक्तम् । इदं पूर्वान्वयि । विहसितेन लोकस्य इति शेषः, विहसितं च-" सशब्दं मधुरं कालागतं वदनरागवत् । आकुञ्चिताक्षिगण्डं ('मंद्र) च विदुर्विहसितं बुधाः ॥" (७।१४३८) इति सङ्गीतरत्नाकरे, तेन नतवदनां अधोमुखीं, संभ्रमात् ॥ ६०२ ॥ एवं अविमृश्यकारित्वात् भ्रष्टोभयार्थत्वात् वा पश्चात्तापेन अनुशयेन गृहीतां कलितां, कण्टकादिभिः विद्धपादतलां, अयमेव मातरमनादृत्य स्वीकृतस्य अभिसारस्य लाभ: इति कटाक्षः, अत एव ] अस्मदिति-तयैवं निषिद्धा तद्वचनानि च अनादृत्य अहं कृतगमना एवं विपत्तिमापन्ना इत्यादि शोचन्ती इत्यर्थः; [ अस्माकं इति गर्वोक्तौ बहुवचनं, मातुः इत्यर्थः, वचः निषेधवाक्यं, स्मरन्तीं यथानुभवं मनसि परिवर्तयन्ती, द्रक्ष्यन्ति अभिसारिका त्वां, सुकर्माणः कृतपुण्या: इति सोल्लुण्ठवचनं, हास्योत्पादकसंकटपतितां ६०१ संवदनं (नां? ) (प)। न्नुद्धसिते (प) ६०२ वैलक्ष्यवीडितेन (4) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy