________________
१७०
दामोदरगुप्तविरचितं 'गृहकार्यव्यग्रतया चित्तग्रहणाय वा कुलस्त्रीणाम् । नायाते भवति, सखी पाड्घनकलुषिते दिशां चक्रे ॥५८६॥ प्रग्रीवकशयनगता स्फारीभवदात्मसम्भवविकारा । त्वद्वर्त्मनिहितनेत्रा गीतामन्येन गीतिकामशृणोत् ॥ ५८७ ॥ 'यदि जीवितेन कृत्यं संभावय विरहिणि प्रियं तूर्णम् ।
घनरसितस्य हि पुरतः कदलीदलकोमलः कुलिशपातः॥५८८॥ नैपुणेन चातुर्येण, कथयितव्यः वक्तव्यः ।५८५॥ तत्रादौ प्रियाभिगमनबीजं युग्मेन निक्षिपति गृहेति । मम सखी मालती, भवति अत्यादरे भवान् इति उत्तमपुरुषप्रयोगः, तस्या: सर्वस्वभूते त्वयि इत्यर्थः; न आयाते तद्गृहं अनागते, अनेन सा 'विप्रलब्धा' इति सूचितं; अनागमनकारणं वितर्कयति गृहकार्यव्यग्रतया कस्मिंश्चित् स्वकार्ये व्यापृततया, अथवा अपरासां कुलस्त्रीणां परकीयानां कुलवतीनां, चित्तग्रहणाय प्रलोभनार्थ, तादर्थे चतुर्थी; इयं असूयोक्तिः परकीयारतप्राप्तये यतमानः स्वरक्तामपि सामान्यां कथं स्मरेत् इति । एवं विरहपीडां अनुभवत्याः तस्याः गण्डस्योपरि पिटकोद इव मेघदर्शनं जातं इत्यग्रे कथयति प्रावृडिति । दिशां चक्रे समूहे सर्वासु अष्टासु दिक्षु इत्यर्थः, प्रावृषि ये घनाः ते प्रावृड्घना: वर्षाकालीनमेघाः, तै: ] कलुषिते व्याते [ मेदुरे मलिनीकृते वा । ] ५८६ ॥ [ प्रग्रीवके प्रासादे, “प्रग्रीवमस्त्री कलशे ग्रीवाप्रासादयोरपि ।" इति केशवः, प्रग्रीव एव प्रग्रीवकः, तत्र शयनगता नैराश्येन शय्यापतिता, अनेन सा 'वासकसजा' इति सूचितं, स्फारीत्यादि मेघदर्शनविभावितोद्दीपितमन्मथविकारा, यथोक्तं मेघदूते ( १।३ )-" मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेत:, कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ।" इति; " अनेन पुनर्निर्वृतानामप्युत्कण्ठाकारिणा मेघोदयेनाप्रतीकारो भविष्यतीति तर्कयामि । " इति विक्रमोर्वशीये ( अं. ४) चित्रलेखावाक्यम् ; “ विरहमविरहं वा नानुरुंधति मेघाः, सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति । " (५ । २८ ) इति बालरामायणे च । अत एव त्वद्वम॑नि तव नियते आगमनमार्गे, निहिते स्थापिते नेत्रे नयने यया सा, त्वां व्याकुलतया प्रतीक्षमाणा इत्यर्थः ॥ उक्तं च काव्यमीमांसायां वर्षास्वभावाख्याने... वियोगिनीवीक्षितनाथवा ...." या तुङ्गहाग्रविलासशय्या ... इत्यादिकम् । गीतिरेव गीतिका, तल्लक्षणं-उक्तं प्राक् (आ. ३२५ )॥ अत्र 'प्राग्नीवकशयनगता' इति पाठः अर्थानवबोधमूलक इति भाति ॥ ५८७॥ जीवितेन प्राणविरहाभावेन । ]
५८७ प्राग्रीवकशयन (गो. का)। वन्मार्गनि० (५)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com