SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ७६ करुणरसकदम्बकम् कथं मयैकेन च दक्षिणेन धरिप्यते सा ननु तर्णकेन ? ॥ ५८ ॥ अचिंतयित्वेति मैदाकृतिं द्राक् त्वमप्सर:केलिरसानसेवीः । न चेद् भवाग्रहितकारिपित्रा विमुच्यते किं पृथुको लघीयान् ?॥१९॥ अकबरोऽयं नरराजरत्नं भवांश्च सर्वर्षिजनावतंसः । मिथश्च योऽभूद् युवयोनिषंगः सुवर्णमण्योरिव वर्णनीयः ॥ ६० ॥ सँ जातवान् दत्तसमस्तसंपद् नृणां कृषीणामिव वारिवाहः । प्रकाशभाग भानुमतेव लोको महस्विना 'तेन बभूव सर्वः ॥६१॥ मरुविवामर्त्यमहीमह स जनेषु चासीत् सततं हिताय । कदाऽथ भावी सुखकृत् प्रजानां पयोरुहां पूंप्ण इवोदयः स ? ॥६२॥ शशीव पक्षण सितेतरेण कलाकलापं क्रमतो नतेह । से नाशितस्त्वां हरता विधात्रा जगत्पयोराशिविलासमूलम् ॥ ६३ ॥ विवाहिता श्रीमदकब्बराय वराय तात ! त्वयका द्विजेन । कृपाकनी रूपबलर्द्धिबीजं तथा यथार्थाद्भुतमंत्रभाजा ।। ६४॥ यथा युतौ नित्यमिमावभूतां सुदंपती भावरसान् प्रपन्नौ । विनाऽस्ति न त्वां स परत्र मंत्रः स्मरन्नदस्तापमुपैम्यहं ही ! ॥६५॥ -युग्मम् अकबरो बब्बरवंशजन्मा त्वंयीद्धबुद्धि शमस्ति भूपः । सुभक्तिभाजस्त्वयि येऽसुभाजः स तानसून स्वानिव पाति नित्यम्॥६६॥ १ वत्सकेन । २ लघीय स्वरूपाम् । ३ बालः । ४ युवयोः सङ्गः । ५ सङ्गेन । ६ सुरतरुः । ७ सङ्गः । ८ रवे: । ९ युवयोः सङ्गः । १० दीप्तमतिः ११ प्राणिनः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy