SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ३२ करुणरसकदम्बकम् एवं स्वर्लोकवस्तूनि, स्मारं स्मारं दिवौकसः । विलपन्तः क्षणस्यान्तर्विध्यायन्ति प्रदीपवत् ॥ १७४ ॥ ॥ नवभिः कुलकम् ॥ -त्रिषष्टि० प०३, स० ४, पृ० ३८ । [२१] मृगभ्रान्त्या भ्रातृवधे जराकुमारस्य विलपनम् । श्रुत्वेति किमयं कृष्ण इति तत्रैव सत्वरम् । जरत्कुमार आयासीद्दृष्ट्वा कृष्णं मुमूर्छ च ॥ १३८ ॥ कथमप्याप्तसंज्ञः सेञ्जारेयः करुणं रुदन् । पप्रच्छ कृष्णं हा भ्रातः किमेतत्किमिहागमः १ ॥ १३९ ॥ किं द्वारका पुरी दग्धा किं यदूनां क्षयोऽभवत् ? । सा नूनं नेमिवाक् सर्वा सत्या तेऽवस्थयानया ॥ १४० ॥ कृष्णोऽपि सर्वमाचख्यौ जारेयोऽपि रुदन् पुनः । इत्यूचे हा मया भ्रातुरागतस्योचितं कृतम् ॥ १४१ ॥ कनिष्ठं दुर्दशामग्नं भ्रातरं भ्रातृवत्सल्म् । त्वां निहन्तुर्मम स्थानं क्व नाम नरकावनौ ? ॥ १४२ ॥ वनवासं तव त्राणबुद्ध्याकार्षमहं किल । न जाने विधिना यत्ते स्थापितः पुरतोऽन्तकः ॥ १४३ ॥ हे पृथ्वि ! देहि विवरं वरमद्यैव येन ताम् । अनेनैव शरीरेण प्रयामि नरकावनम् ॥ १४४ ॥ १ जरादेवीपुत्रः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy