SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् [१७] सुतारायां पञ्चत्वमुपागतायां श्राविजयनृपस्य विलापः। परासुरिवनिःसंज्ञः परासुमवलोक्य ताम् । पपात मूच्छितः पृथ्व्यां स पृथ्वीपतिपुंगवः ॥ २५८ ॥ पुनर्व्यवृत्तचैतन्योऽभिषिक्तश्चंदनद्रवैः ।। मूर्धाभिषिक्तमूर्धन्यो विललापैवमुच्चकैः ॥ २५९ ॥ ह हा दैवेन मुषितो नयता त्वां मनोरमे ! । त्वद्रूपैरेव हि प्राणैः प्राणितव्यं ममाभवत् ।। २६० ॥ त्वां विनैष जनः कान्ते ! शोकसंभारभारतः । जीर्ण गृहमिवाधारस्तम्भहीनं पतिप्यति ॥ २६१ ॥ मद्वल्लभां लोभयता वल्लभादेशतत्परः । काञ्चनेन कुरङ्गेण वञ्चितोऽस्नि ह हा जडः ॥ २६२ ।। प्रत्यक्षं मे प्रियां द्रष्टुं तक्षकोऽपि हि न क्षमः । कुर्कुटाहिस्तु दूरेऽस्तु देवं हि बलवत् परम् ॥ २६३ ॥ ततोऽनुमन्तुं दयितां त्यजन् प्राणान् हुताशने । ऊनं प्रपूरयाम्यद्य दुर्दैवम्याभिसर्पतः ॥ २६४ ॥ तया सह महीनाथः सद्यो विरचितां चिताम् । अलंचक्रे स्वयं धीरो रतिमन्दिरतल्पवत् ॥ २६५ ॥ - त्रिषष्टि० ५० ५, स० १, पृ० १०९ । १ गतप्राणाम् ! २ मूर्धाभिषिक्तानां राज्ञां मृधन्यो मुकुटसमानः । . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy