________________
करुणरसकदम्बकम्
२७ [१६] घृतममुञ्चति नले दवदन्त्याः खेदः । नलानुरक्तो लोकश्च हा हा कर्तुं प्रचक्रमे । हाहाकार तमाकर्ण्य तत्रागाद्दवदन्त्यपि ॥ ४४४ ॥ उवाच वचनं नाथ ! नाथामि त्वां प्रसीद ने । मुंच द्यूतं द्रोहको ते वैरिणाविव देवनौ ॥ ४४५ ॥ वेश्यागमनबद्यूतं क्रीडामात्रं मनीषिणः । सेवन्ते नाथ ! न त्वेवमन्धकरणमात्मनः ॥ ४४६ ॥ वरं राज्यं स्वयं देहि कूलरायानुजन्मने । श्रीरात्तास्मात्प्रसोति प्रवादं मात्मनः कृथाः ॥ ४४७॥ उपार्जिता युद्धशतैबूतोत्तीर्णा मही तव । दुनोति देवात्यन्तं मामश्रोतोगतसिक्थुवत् ॥ ४४८ ॥ तद्वाचं न हि शुश्राव ददर्शापि न तां नलः । अध्यारूढो मदावस्थां दशमीमिव वारणः ।। ४४९ ॥ पत्या भृशमवज्ञाता रुदन्ती दवदन्त्यथ । कुलामात्यादिकानूचे नलं द्यूतान्निषेधत ॥ ४५० ॥
-त्रिषष्टि० प० ८, स० ३, पृ० ५५ ।
१ पार्थयामि । २ क्रीडनपाशको। ३ छूतेनोत्तीर्णा गतेस्त्ययः । ४ गजस्य मदावस्थाविशेषः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com