SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् यत्कृते कुरुते लोकः पापं दुष्कर्मणेरितः । तदू देहं नलिनीपत्र स्थित बिन्दु चलाचलम् ॥ १२ ॥ संसारखाले दुर्गन्धे, शृङ्गाररसपिच्छले । जानन्तोऽपि निमज्जन्ति गर्त्ताशुकरवज्जनाः ॥ १३ ॥ षष्टिं वर्षसहस्राणि भ्रमं भ्रामं धरातले । कलेवरस्यास्य कृते, धिगकृत्यं मया कृतम् ॥ १४ ॥ धन्यो बाहुबलि, धन्या अन्येऽपि बान्धवाः । यदसारममी त्यक्त्वा, संसारं मुक्तिमासदन् ॥ १५ ॥ राज्यं चलाचलं प्राज्यं, यौवनं च पतापतम् । लक्ष्मीश्चलाचला यत्र, भवेत् तत्र स्थिरं कथम् ? ॥ १६ ॥ माता पिता कलत्राणि, बान्धवाः पुत्रसम्पदः । जन्तूनां भवकूपान्तः, पततां कोऽपि न क्षमः ॥ १७ ॥ तात ! त्राहि जगत्रातर्यया त्राताः परे सुताः । अथोपलम्भनैरास्तां दुष्पुत्रत्वात् स्मृतोऽस्मि न ॥ १८ ॥ नाहं न मे श्रियो देहं गेहं नान्तः पुराणि च । एकोऽस्मि समतानन्दसुधाम्भसि कृतप्लुतिः ॥ १९ ॥ उपाधिरहिते शान्तेऽक्रिये निधनवर्जिते । परे तत्त्वे चिदानन्दे, तदेति स लयं ययौ ॥ २० ॥ - शत्रुञ्जयमाहात्म्ये स० ६, पृ० १११ ॐ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy