SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् [५] भरतनृपस्यानित्यताभावनागर्भितः पश्चात्तापः । पश्यन् प्रत्यङ्गमुद्रङ्गो, 'विमुद्रां स निजागुलीम् । हिमदग्धद्रुशाखाभां, मनस्येवमचिन्तयत् ॥ ५॥ यथेषा कृत्रिमा शोभा, ममागुल्यां हि मुद्रया । तथा मन्ये शिरोमुख्यप्रदेशेष्वपि भूषणैः ॥ ६ ॥ मौलेमौलिमपाकरोत् श्रुतियुगात् स कुण्डले कण्ठतो 'निष्कं हारमुरु(रः)स्थलाच्च सहसैवांसद्वयादङ्गदे । चक्री पाणियुगाच्च वीरवलये मुद्रावलीमङ्गुलीवर्गाद भारमिव प्रशान्तहृदयो वैराग्यभागित्यथ ॥ ७ ॥ फाल्गुने मासि निष्पत्रफलपुप्पमिव द्रुमम् । व्यलकारं वपुर्वीक्ष्य स मनस्येवमस्मरत् । ॥ ८ ॥ कायभित्तिरियं भूषावर्णविच्छित्तिचित्रिता । अनित्यताजलक्लिन्ना, पतत्यन्तरसारतः ॥ ९ ॥ अहो शरीरिणां मोहः, शरीरत्यास्य दुस्त्यजः । रुक्समीरचलत्पकपत्रस्येव पतिप्यतः ॥ १० ॥ त्वगियं देहिनां सारं, शरीरे साप्यहर्निशम् । लिप्तानि(पि?) चन्दनरसैः, "पिच्छ(च्छि)लत्वं न मुञ्चति ॥११॥ १ मुद्रारहिताम् । २ कण्ठाभरणम् । ३ आभूषणरहितम् । ४ निग्धत्वम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy