________________
√5
|| ॐ नमः श्रीसिद्धचक्राय ॥
परमगुरु- विश्व विख्यात जैनाचार्य - श्रीमद् विजयनेमिनरीश्वर
भगवद्भ्यो नमः ॥
॥ करुणरसकदम्बकम् ॥ संस्कृत: खंडः १ ।
-
[ १ ]
प्रतिपन्नमहाव्रतं बाहुबलिं दृष्ट्वा भरतस्य परिदेवनम् ।
साश्रुनेत्रः कनीयांसं, प्रणनाम च तत्क्षणात् । स्वनिन्दातत्प्रशंसाढ्यं वचनं च जगाविति ॥ १८ ॥ ये लोभमत्सरग्रस्तास्तेषां मुख्योऽस्मि बान्धव ! | बलिनां च कृपालूनां धर्मिणां च त्वमेव हि ॥ १९॥ आदौ जितोऽस्मि युद्धेन ततो रागादयोऽप्यमी । व्रतास्त्रेण त्वया भ्रातस्त्वत्तो नास्ति परो बली ॥ २० ॥ ममापराधमेनं त्वं षित्वा ब्रूहि बान्धव ! । दयालुः पूर्ववन्नासि, किं यन्मयि न पश्यसि ? ॥ २१ ॥
१ क्षान्त्वा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com