________________
हरिभद्राचार्यस्य८ तस्स य आयारधरो तत्तायरिओ ति नामसारगुणो ।
आसि तवतेयनिज्जियपावतमोहो दिणयरो व्व ।। ९ जो दूसमसलिलपवाहवेगहीरन्तगुणसहस्साण ।
सीलङ्गविउलसाली लग्गणक्खंभो व्व निकंपो ॥ १० सं.सेण तस्स एसा हिरिदेवीदिन्नसणमणेण ।
रइया कुवलयमाला विलसिरदक्खिण्णइन्धेण ॥ ११ दिनजहिच्छियफलओ बहुकित्तीकुसुमरेहिराभोओ।
आयरिय-वीभरद्दो अवा ( हा ) वरो कप्परुक्खो व्व ॥ . १२ सो सिद्धंत [म्मि] गुरु (रू ), पमाण-नाएण ( अ ) जस्स हारेभो ।
बहुग्गन्थसत्थवित्थरपयड-[ समत्तसुअ] सच्चत्यो॥ १३ राया [य] खत्तियाणं वैसे जाओ वडेसरो नाम ।
तस्सुज्जोयणनामो तणओ अह विरइआ तेण ॥ अस्यां प्रशस्तौ प्रथमं दशभिर्गाथाभिर्दाक्षिण्यचिह्नन स्वकीया मल (दीक्षा ) गुरुपरम्परा वर्णिता । तदनन्तरं च तिसृभिर्गाथाभिर्विशेषोपकारिणः पूज्यगुरवः प्रकीर्तिताः। तेषु गुरुषु-अन्यतमो हरिभद्रोऽपि । अस्य गाथाकुलकस्यैष स्फुटार्थः-~यः-अपरः कल्पवृक्ष इव यथो सतफलपदो बहुकीर्तिकुसुमसमलङ्कृतश्च, स आचार्यवीरभद्रस्तु यस्य सिद्धान्ते-अर्थात् सिद्धान्ताध्यापको गुरुः, येन च बहून् ग्रन्थान् प्रणीय समस्त श्रुतस्य-निखिलजैनागमस्य सत्योऽर्थः प्रकटीकृतः स आचार्यहरिभद्रो यस्य प्रमाण-न्याय-अर्थात् प्रमाण-न्यायशास्त्राध्यापको गुरुः, क्षत्रियाणां वंशे समुत्पन्नो वटेश्वरो नाम राजा यस्य च पिता, तेन ' उद्योतन ' इति मूलनाम्ना एषा कथा गुन्फिता, इति ।
__ अनेनोल्लेखेन स्पष्टं ज्ञायते यत् -कथाकृता दाक्षिण्यचिन्हने हरिभद्रसूरिसमीपे प्रमाण-न्यायशास्त्राणामध्ययनं कृतम् । अत्र पुनर्विदुषां पुर एतनिवेदनस्य न काचिदावश्यकता, यत्-आस्मिन्नवतरणे वर्णितोऽसौ हरिभद्रः, स एव प्रामाणिकग्रामाप्रणीः, यस्य सत्तासमयं निर्णेतुमयं निवन्ध उपक्रान्तोऽस्माभिः । यतः 'बहुग्रन्थसार्थबिस्तरप्रकटसमस्तश्रुतसत्यार्थ-' इति विशेषणविशिष्टः कश्चिदपरो हरिभद्रसूरिरद्यावधि जैनवाङ्मये न क्वापि दृष्टः, श्रुतो वा।
तदेवम्-केवलविशुद्ध-प्रशमरसपरिपूर्ण-समरादित्यकथाकर्ता हरिभद्रसूरिः, शान्तरसमिश्रि
.८ तस्य चाऽऽचारधरस्तत्त्वा(ता.)चार्य इति नामसारगुणः। आसीत् तपस्तेजोनिर्जितपापतमौथो दिनकर इव।।
९ यो दुषमसलिलप्रवाहवेगहियमाणगुणसहस्राणाम् । शीलाङ्गविपुलशालो लग्नस्तम्भ इव निष्कम्पः ॥ १० शिष्येण तस्यैषा हीदेवीदत्तदर्शनमनसा । रचिता कुवलयमाला विलसद-दाक्षिण्यचिह्नन ॥ ११ दत्तयथेप्सितफलको बहुकीर्ति कुसुमराजमानाऽऽभोगः । आचार्य-वीरभद्रोऽथापरः कल्पवृक्ष इव ।। १२ स सिद्धान्ते गुरुः, प्रमाण-न्याये च यस्य हरिभद्रः । बहुग्रन्थसार्थविस्तरप्रकटसमस्तश्रुतसत्यार्थः ।। १३ राजा च क्षत्रियाणां बंशे जातो वटेश्वरो नाम । तरयोद्योतननामा तनयोऽथ विरचिता तेन ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com