SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ समवनिर्णयः । ११ शकवर्षीयचैत्रकृष्णचतुर्दश्याम्, समाप्तिमगमत् । एतदर्थको निर्देशः कथाकृतैष प्रशस्तिमान्ते कृतो ऽ स्ति । यथा " अह चोदसीए चितस्स किण्हपत्रस्वम्मि । निम्पविया बोहकरी भव्वाणं होड सब्वाणं ॥ ' .... “सगकाले बोलोगे वरिसाण सएहिं सतहिं गएहिं । एगदिणे गणेहिं एस समता वरैहम्मि ॥" बाकविकृतायां हवख्यायिकायाम्, घनपाल कविविरचितायां च तिलकमञ्जर्यामिव एतस्यामपि कथायामादो कविना कतिपये प्राचीनाः कवयः प्रशंसिताः । तत्र मान्ते हरिभद्रसूरिरपि मत्रमरसपरिपूर्ण' समरादित्य ' चरित्रकर्तृत्वेन सम्यक् प्रशंसितः । ' जो इच्छा भवविरहं भवविरहंको न बन्ध (न्द १ ) ए सुयणो । समय सय सत्यगुरू गो समरमिअंका ( राइच्चा ? ) कहा जस्स ॥ 36 ( एवं हि कथामान्तेऽपि प्रशस्तिभागे हरिभद्रस्योल्लेखो वर्तते; किन्तु, विशेषविचारणीयत्वात् तद्विषये पुरस्ताद्विचारं करिष्यामः । ) अनेन प्रमाणेन स्पष्टमेव यन् - हरिभद्रस्य, सप्तशतीतमात् (७००) शकाब्दात् - अर्थात्, पञ्चत्रिंशदधिकाष्टशत मात् ( ८३२ ) विक्रमाब्दात्, अष्टसप्तत्यधिकसप्तशतीतमात् (७७८) सृष्टाब्दाद् वा - अर्वाचीनत्वं कथमपि नाभ्युपगन्तुं शक्यते । अथात्रायमपरः प्रश्न उद्भवति - ' यदि हरिभद्रस्य ' कुवलयमाला-कथा ' गतेनोक्तेनासन्दिउधप्रमाणेन सिद्धर्षिसन कालवर्तित्वं न सिद्ध्यते, तदा पुनः पूर्वोक्तमाकृतगाथामामाण्येन तस्य विक्रम/यषठशताब्दीवर्तित्वस्वीकारे कः प्रत्यवायः १ ' तत्रापीदं समाधानम् - एतत्प्रभमयुक्तेन हरिभद्रीयानेकग्रन्थमत्यवेक्षगेनास्माकमेतादृशानि बहूनि प्रमाणानि प्राप्तानि यानि तत्माकृतगाथामामाण्यस्थ बलबद्बाधकानि सन्ति । तेषां (प्रमाणानां ) ऐतिहासिकदृष्ट्या पौर्वापर्यपर्यालोचनायां कृतायां हरिभद्रस्य गाथादिनिर्दिष्टं पञ्चाशीत्यधिक पञ्चशतीतमे ( ५८५ ) विक्रमाब्दे स्वर्गगमनं कथमपि साधयितुं न शक्यते । वयं पूर्वमेवावोचाम, यत्-इरिभद्रेश स्वरचितेषु ग्रन्थेषु प्रमाणतया नैकेषां ब्राह्मण-बौद्ध-जैनशाकाराणां विचाराः, नामानि च लिखितानि दृश्यन्ते । तत्र सुपर्यालोचितसमयानां कतिपयव्यकीनां पूर्वापरीभावानुसयानेनास्मत्कृतस्य मारुतगाथामामाण्यनिराकरणस्य सत्यना सेत्स्यति, तथा प्रस्तुतविषयस्य निर्णयोऽपि सुनिश्चितो भविष्यति । अथात्र प्रसङ्गवशाद् विदुषां परिचयाय हरिभद्रेण स्वग्रन्येषु स्वतानि भिन्नभिनानकाराजां नामधेयानि तावद् निर्दिश्यन्ते -- ३५ ' डेक्कनकालेज ' संस्थितराजकीय ग्रन्थ सदस्यपुस्तकम् । पृ० १३६ ३६ तदेव पुस्तकम् पृ०, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034508
Book TitleHaribhadracharyasya Samay Nirnay
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages24
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy