SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ [ १३१ ] तथा नवकल्पिविहारोहि लोकोत्तरकार्येषु, आसाढेमासे दुष्पया, इत्यादि सूर्य्यचारे, लोकेपि दीपालिका अक्षय तृतीयादि पर्वसु धन कलत्रादिषु च अधिकमासो न गण्यते तदपि त्वं जानासि अन्यच्च सर्वाणि शुभकार्य्याणि अभिवर्द्धिते मासे नपुंसक इति कृत्वा ज्योतिः शास्त्रे निषिद्धानि अतएव आस्ता मन्योऽभिवर्द्धितो भाद्रपदवृद्धौ प्रथनो भाद्रप दोषि अप्रमाणमेव यथा चतुर्दशी वृद्धौ प्रथमां चतुर्दशीनवगण्य द्वितीयायां चतुद्दश्यां पाक्षिक कृत्यं क्रियतेतथात्रापि एवं तर्हि अप्रमाणे मासे देवपूजा मुनि दानावश्यकादि कार्य्यमपि न कार्य्यमित्यपि वक्तुमाधरौष्टं चंपलय यतो यानि हि दिनप्रतिबद्धानि देवपूजा मुनि दानादि कृत्यादि तानि तु प्रतिदिन कर्त्तव्यान्येवं यानि च सन्ध्यादि समय प्रतिबद्धानि आवश्यकादीनि तान्यपि य कञ्चन सन्ध्यादि समयं प्राप्य कर्त्तव्यान्येव यानि तु भद्रपदादि मास प्रतिबद्धानि तानि तु तद्द्द्वयसम्भवे कस्मिन् क्रियते इति विचारे प्रथम मवगण्य द्वितीये क्रियते इति सम्यग् विचारय तथाच पश्य अचेतना वनस्पतयोपि अधिकमास नांगी कुर्वते येनाधिकमासे प्रथमं परितज्य द्वितीय एव मासे पुष्पति - यदुक्तम् आवश्यकनिर्युक्तौ, जइफुल्लाकस्सि आरडा, चूअग अहिमा सयंमिघुटु भि ॥ तुहनखमं फुल्लडं, जइपच्चताकरिति डमराई ॥ १ ॥ तथा च कश्चित् ॥ अभिवदढियंमिवीसा, इयरेसु सवीसह मासो, । इति वचन बलेन मासाभिवृद्धौ विंशत्यादि तैरेव लोवादि कृत्य विशिष्टां पर्युषणां करोति तदप्ययुक्तं येन अभिवद्द्द्वियंमिवोसा इति वचनं गृहिज्ञातमात्रापेक्षया अन्यथा आसाढ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034484
Book TitleBruhat Paryushana Nirnay
Original Sutra AuthorN/A
AuthorManisagar
PublisherJain Sangh
Publication Year1922
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy