SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ [ ३४ ] शश्च द्वाषष्टिभागादिनस्य एतावत्परिमाणञ्चन्द्रमास इति भवति सूर्य्यसंवत्सर सत्क त्रिंशन्मासातिक्रमे एकोऽधिकमासो युगे च सूर्य्यमासाः षष्टिस्तो भूयोऽपि सूर्य्य सम्वत्सरः सत्क त्रिंशन्मासातिक्रमे द्वितीयोऽधिकमासो भवति । उक्तंच सट्टीये अइयाए हव हु अहिमासग्गो जुग मि बावीसे पger हवइ हु बीओ जुगंतंमि ॥१॥ अस्याऽपि अक्षरगमनिका एकस्मिन् युगे अनन्तरोदित स्वरूपे पर्वणां पक्षाणां षष्टौ अतीताया षष्टिसंख्यषु पक्षेषु अतिक्रान्तेषु इत्यर्थः । एतस्मिन्नवसरे युगाई युगाई प्रमाणे एकोऽधिकोमा सो भवति द्वितीयस्त्वधिकमासो द्वात्रिंशत्यधिके पर्वशते अतिकान्त युगस्यान्त युगपर्य्यवसाने भवति तेन युगमध्ये तृतीय संवत्सरे अधिकमासः पञ्चमे चेति द्वौ युगे अभिवर्द्धितसंवत्सरौ संप्रति युगे सर्वसंख्यया यावन्ति पर्वाणि भवन्ति तावन्ति निद्दिक्षुः प्रतिवर्ष पर्वसंख्यामाह । ता पढमस्सण मित्यादि ता इति तत्र युगे प्रथमस्य णमिति वाक्यालंकृतौ चन्द्रस्य संवत्सरस्य चतुर्विंशतिपर्वाणि प्रज्ञप्तानि द्वादशमासात्मको हि चान्द्रः संवत्सरः एकैकस्मिंश्च मासे द्वे द्वे पर्वणि ततः सर्व संख्या चन्द्रसंवत्सरे चतुर्विंशतिः पर्वाणि द्वितीयस्य चान्द्रस ंवत्सरस्य चतुर्विंशतिः पर्वाणि भवन्ति अभिवर्द्धितसं वत्तरस्य षडविंशतिः पर्वाणि तस्य त्रयोदशमासात्मकत्वात् चतुर्थस्य चान्द्र संवत्सरस्य चतुर्विंशतिः पर्वाणि पञ्चमस्याभिवर्द्धित संवत्सरस्य षडूविंशतिः पर्वाणि । कारणमनन्तरमेवोक्तं तत एवमेवोक्तेनैव प्रकारेण सपुवा वरेणंति पूर्वापर गणित मिलनेन पचसांवत्सरिके युगे चतुर्विंशत्यधिकं पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकृद्भिर्मया चेति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034484
Book TitleBruhat Paryushana Nirnay
Original Sutra AuthorN/A
AuthorManisagar
PublisherJain Sangh
Publication Year1922
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy