SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २० भट्टि-काव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः, वनस्पतीनामित्यादि-स रामः । तस्याः पुरः अयोध्यायाः । निर्याय निर्गत्य । समन्तात् सर्वतः शरदं ददर्श दृष्टवान् । कालस्याप्रत्यक्षत्वात् कार्याणां दर्शनात्तद्दर्शनमिति मन्यते । श्रियं दधानां धारयन्तीं । केषां वनस्पतीनां पारस्करादिदर्शनात् सुद । अत्र लोकप्रतीत्या वृक्षा द्रष्टव्याः । न तु पारिभाषिकाः । तथा सरसां तडागानां नदीनां गङ्गादीनां तेजस्विनां चन्द्रतारादीनां कान्ति नैर्मल्यं बिभ्रतां दिशां च । तदा हि निर्मला दिशो भवन्ति । वनस्पत्यादीनां श्रियं दधानां शरदं ददर्श ॥ तां रामव्यापारं विना सामान्येन वर्णयज्ञाह२९-तरङ्ग-सङ्गाच् चपलैः पलाशैर् ज्वाला-श्रियं साऽतिशयां दधन्ति ॥ स-धूम-दीप्ताऽग्नि-रुचीनि रेजुस् तायोत्पलान्याकुल-षट्-पदानि. ॥२॥ तरङ्गेत्यादि-तरङ्गसङ्गात् सलिलोर्मिसम्पर्काञ्चपलैः चञ्चलैः पलाशैः पत्रैः ज्वालाश्रियं सातिशयां दधन्ति । सधूमदीप्ताग्निरुचीनि सधूमदीप्ताग्नेरिव रुचिर्येषां रकोत्पलानां तानि रेजुः दीप्यन्ते स्म । राजेर्लिटि '२३५४ । फणां च सप्तानाम् ।६।१२५।' इति एत्वाभ्यासलोपौ। आकुलाः इतस्ततो यायिनः षट्पदा येष्विति । चलितपत्राणामग्निशिखातुल्यत्वात् षट्पदानां च धूमतुल्यत्वात् सधूमदीप्ताग्निरुचीनीत्युक्तम् ॥ ३०-बिम्बाऽऽगतैस् तीर-वनैः समृद्धिं निजां विलोक्योऽपहतां पयोभिः॥ कूलानि साऽऽमर्षतयैव तेनुः सरोज-लक्ष्मी स्थल-पद्म-हासैः ॥ ३ ॥ बिम्बेत्यादि-बिम्बं प्रतिबिम्बं तेनागतैर्निपतितैरिति । तृतीयेति योगविआगात् समासः । तीरवनैः कुसुमितैरित्यर्थात् । तैः करणभूतैः । पयोभिः कर्तृभिः समृद्धिं विभूतिं निजामात्मीयां अपहृतां विलोक्य कूलानि कर्तृभूतानि सामर्षतयेव साक्षमतयेव सरोजलक्ष्मी कमलशोभां पयःसम्बन्धिनीं तेनुः विस्तारितवन्ति । '२२६०। अत एकहलमध्ये-६।१२०।' इत्यादिना एत्वाभ्यासलोपौ । कूले सरोजासम्भव इति चेदाह-स्थलपमहासैरिति स्थलकमलविकासरित्यर्थः ॥ ३१-निशा-तुषारैर् नयनाऽम्बु-कल्पैः पत्रा-ऽन्त-पयांगलदच्छ-बिन्दुः॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy