SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः - १९ तदस्य '१७७२ । प्रयोजनम् | ५ | १|१०९ | ' इति ठञ् । '४७०। टिड्डाणञ्|४|१|१५|' इत्यादिना ङीप् ॥ " २७ - अथ जगदुरंनीचे - रोशिषस् तस्य विप्रासू, तुमुल-कल-निनादं तूर्यमाजघ्नुर॑न्ये ॥ अभिमत-फल- शंसी चारु पुस्फोर बाहुस्, तरुषु चुकुवुरुच्चैः पक्षिणश् चोsनुकूलाः ॥' · अथेत्यादि - तस्य रामस्य व्रजतो विप्रा अनी चैर्महता ध्वनिनाशिष इष्टवचनानि जगदुर्गदितवन्तः । अन्ये वादकास्तूयै कांस्यतालपटहादिसमूहमाजन्नुस्ताडितवन्तः । ‘२६९५। आङो यम- हनः | १|३|२८|' इत्यात्मनेपदं न भवति । अकर्मकादित्यनुवर्तते । तुमुलो महाम्कलो मधुरो निनादो ध्वनिर्यस्येति । अभिमतमिष्टं फलं शंसितुं शीलं यस्य बाहोः स चारु पुस्फोर सुतरां स्फुरितवान् । भत्र दक्षिणो बाहुः सामर्थ्याद्गम्यते स्वाङ्गत्वात् । अनेन सीताप्राप्तिबीजमुपन्यस्तम् । स्फुरतेरभ्यासस्य २२५९ । शर्पूर्वाः खयः | ७ |४| ६१॥' इति खयः शेषः । चर्ध्वम् । पक्षिणश्च तरुषु स्थिता अनुकूलाः सन्त उच्चैः : सुष्ठु चुकुवुः कूजितवन्तः । ' १११५ | कु शब्दे' इत्यस्य लिटः कित्त्वा - दुवङादेशः ॥ इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री भट्टिकाव्येप्रथमे प्रकीर्णकाण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः ), तथा लक्ष्य - रूपे कथानके श्री राम संभवो नाम प्रथमः सर्गः पर्यवसितः । द्वितीयः सर्गः - इदानीं विजिगीषूणां कण्टकान् समुद्धर्तु शरत्काले समुद्योग इति तमेव वर्णयन्नाह - २८ - वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च ॥ निर्याय तस्याः स पुरः समन्ताच्छ्रियं दधानां शरदं ददर्श ॥ १ ॥ १ - पद्येऽस्मिन्वृत्तं पूर्वो (२६) क्तम् । २ – १०७१ । पारस्कर प्रभृतीनि च संज्ञायाम् ।६।१।१५७। पारस्करः, तस्करः, बृहस्पतिः, वनस्पतिः ।' इति वै० भ० । '३५४ । वानस्पत्यः फलैः पुष्पात्, तैर-पुष्पाद् वनस्पतिः ।' इति ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy