SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः -- ३०१ प्रातस्तरामित्यादि — गुरुजनो नखदशनक्षतं मा द्राक्षीदिति युवानः प्रातस्तरां प्रत्युषसि चन्दनलिप्तगात्रा हस्तैरधरान् प्रच्छाद्य वदन्तोऽपि शाम्यन्निमेषा अनिमिषितनेत्रा निगूहनीयं सुतरां प्रकाशयन्ति स्म नूनमेते सत्कृता येन एवमाचरन्तीति ॥ ९१६ - साम्नैव लोके विजिते ऽपि वामे ! किमुद्यतं धनुरं प्रसह्यम्, ॥ हन्तुं क्षमो वा वद लोचनेपुर् दिग्धो विषेणैव किमञ्जनेन ॥ ३२ ॥ · सानेत्यादि - हे वामे प्रतिकूलवर्तिनि ! मधुरेणाविकृतेन साम्ना लोके अस्मद्विधे जितेऽपि वशीकृते ऽपि भ्रूधनुरप्रसह्यं प्रसोदुमशक्यं उद्यतं उत्क्षिप्तम् । अथवा विलोचनेषुनेत्रशरः स्वत एव हन्तुं क्षमः ततः किमञ्जनेन च विषेण दिग्धो विषलिप्त इति वद कथय ॥ ९१७ - दन्तच्छदे प्रज्वलिताऽग्नि-कल्पे ताम्बूल - रागसू तृण-भार- तुल्यः ॥ न्यस्तः किमित्यूचुरुपेत-भावा गोष्ठीषु नारीस् तरुणीरू युवानः ॥ ३३ ॥ • दन्तच्छद इत्यादि - प्रज्वलिताग्निकल्पे स्वभावलोहितत्वात् दन्तच्छदे ओष्ठे ताम्बूलरागः किमिति न्यस्तः । तूणभारतुल्यः निष्प्रयोजनत्वात् । इत्येवमूचुर्युवानः प्रातरित्यर्थात् । उपेतभावाः जातानुरागाः गोष्ठीषु स्थिता नारीस्तरुणीरिति ॥ ९१८ - सुखाऽवगाहानि युतानि लक्ष्म्या शुचीनि संताप - हरायुरुणि ॥ प्रबुद्ध-नारी - मुख- पङ्क-जानि प्रातः सरांसीव गृहाणि रेजुः ॥ ३४ ॥ सुखावगाहानीत्यादि - प्रातः प्रभाते गृहाणि सरांसीव रेजुः । सुखावगाहानि निरुपद्रवत्वात् सुखेनावगाह्यन्ते । युतानि लक्ष्म्या देवतारूपया । शुची नि पवित्राणि । संतापहराणि धर्मादिक्केशापहारीणि उरूणि महान्ति । प्रबुद्धानि विनिद्राणि । नारीमुखान्येव पङ्कजानि यत्रेति ॥ ९१९ - संमृष्ट-सिक्ता॒ऽर्चित - चारु-पुष्पैरामोदन्वद्-द्रव्य-सुगन्ध-भागैः ॥ लक्ष्मीर् विजिग्ये भवनैः स भृङ्गैः सेव्यस्य देवैरपि नन्दनस्य ॥ ३५ ॥ भ० का० २६ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy