SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३०० भट्टिकाव्ये - तृतीये प्रसन्न -काण्डे लक्षण रूपे द्वितीयो वर्गः, बाह्यं जहृषुः हृष्टाः । अप्राप्तसुरतत्वात् मन्दायमानानुशयैः मामिः सह शयिता इति तासु ये अनुशयाः अक्षान्तयो जाताः ते मन्दायमानाः शनैः शनैखनूभवन्तो येषु मनःसु तैरित्यर्थः ॥ ९१२ - स्मराऽऽतुरे चेतसि लब्ध- जन्मा रराज लोलोऽपि गुणापहार्यः ॥ कुतूहलान् नेत्र - गवाक्ष-संस्थः पश्यन्निवा ऽन्योन्य-मुखानि रागः ॥ २८ ॥ स्मरातुर इत्यादि - दम्पत्योः प्रातरन्योन्यस्य मुखं पश्यतोः चक्षुषो रागो वर्ण्यते । स्मरातुरे कामातुरे चेतसि लब्धजन्मा लब्धोदयः रागो रक्तभावः नेत्रगवाक्षसंस्थः नेत्रयोर्गवाक्षयोरिव स्थितः कुतूहलात् कौतुकात् अन्योन्यस्य मुखानि पश्यन्निव । कीदृशं कामिन्या मुखं कामुकस्य मुखं वेति । गुणापहार्यः तत्प्रतिपक्षेण शुकगुणेन अपनेयः अत एव लोकोऽपि अचिरस्थाय्यपि रराज ॥ ९१३ गते ऽतिभूमिं प्रणये प्रयुक्तान-बुद्धि- पूर्वं परिलुप्तसंज्ञः ॥ आत्मानुभूतानपि नोपचारान् स्मराssतुरः संस्मरति स्म लोकः ॥ २९ ॥ गते इत्यादि -- प्रणये विश्रम्भे अतिभूमिं गते प्रकृष्टावस्थां प्राप्ते सति ये अबुद्धिपूर्व अनिरूप्य स्वयं प्रयुक्ताः उपचाराः नखदन्तक्षतादयः तानात्मानुभूतानपि प्रातर्न स्मरति स्म कामिलोकः । इदमिदं मया प्रयुक्तमिति । यतः सुरतावस्थायां स्मरातुरतया परिलुप्तसंज्ञो मूढ इति ॥ ९१४ - वस्त्रैरन॒त्युल्बण- रम्य-वर्णैर् विलेपनैः सौरभ-लक्षणीयैः ॥ आस्यैश् च लोकः परितोष- कान्तै रसूचयल् लब्ध- पदं रहस्यम्. ॥ ३० ॥ - वस्त्रैरित्यादि – वस्त्रैः विलेपनैः सौरभलक्षणीयैः सुरभितया परिच्छेदैः आस्यैश्च व्यपगताधररागैः परितोषकान्तैर्लिङ्गभूतैः रहसि भवं सुरतं लब्धपदं प्राप्तचिह्नं लोकः प्रकाशयति स्म ॥ ९१५ - प्रातस्तरां चन्दन- लिष्ठ- गात्राः प्रच्छाद्य हस्तैरधरान् वदन्तः ॥ शाम्यन्- निमेषाः सुतरां युवानः प्रकाशयन्ति स्म निगूहनीयम्. ॥ ३१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy