________________
तथा लक्ष्य रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः - १६१
| ३ |२| ११४ ॥ इति पक्षे लृट् । साकाङ्क्षता च प्रयोक्तुर्लक्ष्यलक्षणयोः संबन्धे । तत्र वासो लक्षणं पानं च लक्ष्यमिति । यस्माद्बन्धूनामयमेष समयः कालः ॥ ४३१ - दैवं न विदधे नूनं युगपत् सुखमवयोः ॥
शश्वद् बभूव तद् दुःस्थं यतो न' इतिहो ऽकरोत्. ॥
दैवमित्यादि - नूनमवश्यं देवमावयोः सुखं युगपदेककालं न विदधे न हि विहितवत् । परोक्षे, लिट् । जित्वात्तङ् । अतो लोपः । यतो यस्मात्तत् दैवं शश्वत् नित्यं दुःस्थमननुकूलं नोऽस्माकं बभूव तस्मादितिह एवमकरोत् इत्येवं कृतवान् । यद्युगपदावयोः सुखविधानं तद्दुःस्थं शश्वद्वभूव । हाकरोदिति भूतानद्यतनपरोक्षे लिटि प्राप्ते '२७७६ । ह- शश्वतोर्लङ् च | ३ |२| ११६ | ' इति लङ् । चकारात् लिट् । तत्र शश्वच्छब्दे उपपदे लिडेवोदाहृतः न लङ् । हशब्दे लडेव न लिडपीति ॥
४३२ - ददौ स दयितां भ्रात्रे मालां चाग्र्यां हिरण्मयीम्, ॥
राज्यं संदिश्य भोगांशू च ममार ब्रणपीडितः १४१
ददावित्यादि - स वाली दयितां ताराख्यां भ्रात्रे सुग्रीवाय ददौ मालां चायां श्रेष्ठां हिरण्मयीं सुवर्णघटिताम् । राज्यं सामात्यादिद्रव्यप्रकृतिम् । संदिश्य दत्त्वा । भोगांश्च राज्याङ्गानि । ममार ब्रणपीडितः । तत्रापि परोक्षे लिट् ॥ ४३३ - तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया ॥
किष्किन्धाऽद्रि-गुहां गन्तुं मनः प्रणिदधे द्रुतम् १४२
तस्येत्यादि - तस्य मृतस्य कर्तव्यं पिण्डोदकादिकरणीयं कृत्वा सुप्रीवो राघवाज्ञया 'गच्छ वर्षासमयमतीत्य शरद्यागमिष्यसि' इति आज्ञया किष्किन्धाद्विगुहां गन्तुं मनः प्रणिदधे कृतवान् । भन्नापि परोक्षे लिट् ॥
४३४ - नाम - ग्राहं कपिभिरंशनैः स्तूयमानः समन्तादेन्वग्भावं रघु-वृषभयोर् वानरेन्द्रो विराजन् ॥ अभ्यर्णे ऽम्भः-पतन-समये पर्णली भूत - सानुं किष्किन्धाद्रिं न्यविशत मधु-क्षीब-गुञ्जद्-द्विरेफम्.
१ – मन्दाक्रान्तावृत्तमिदम् । तल्लक्षणं तु - ' ९७ मन्दाक्रान्ता जलधिषडगैर् म्-भौ नतौ तागुरू चेत् ।' इति वृत्तरत्नाकरे भट्टकेदारः ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com