________________
१६० भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
1
णां तिरोऽञ्चतीति '३७३ । ऋत्विग् - १३।२।५९ |' इत्यादिना क्किन् । आमि ४१६ | अचः | ६|४|१३८|' इत्यलोपः । तेषां निधनं विनाशमैषिषुः इष्टवन्तः । इषेलुंङि रूपम् । कीदृशाम् । उपसेदुषां समीपमुपगतवतां तेषां समीपवर्तिनामुपद्रवकारित्वात् । ‘३०९७| भाषायाम् - १३।२।१०८।' इति वसुः । परदारैश्च सार्धमूषुषां उषितवताम् । पूर्ववत्क्वसुः वसेर्यजादित्वात्संप्रसारणम् ॥
४२७ - अहं तु शुश्रुवान् भ्रात्रा स्त्रियं भुक्तां कनीयसा ||
उपेयिवान॑नूचानैर् निन्दितस्-त्वं लता - मृग ! ॥१३६॥
अहमित्यादि - हे लतामृग हे शाखामृग ! अहं पुनः शुश्रुवान् श्रुतवान् । पूर्ववत् वसुः । यदुत भ्रात्रा कनीयसा भुक्तां स्त्रियं त्वमुपेयिवान् सन् अनूचानैर्वैदविद्भिर्निन्दितस्ततो मे नैव दोषः । ' ३०९८। उपेयिवाननाश्वाननूचानश्च | ३ |२| १०९ |' इति उपेयिवानित्यादिना निपातितौ ॥
४२८ - अन्वनैषीत् ततो वाली त्रपा - वानििव राघवम्. ॥
न्यक्षिपच् चऽङ्गदं यत्नात् काकुत्स्थे तनयं प्रियम् ॥
अन्वित्यादि - ततो रामवचनादनन्तरं वाली राघवमन्वनैषीत् अनुनीतवान् । 'देव क्षम्यतां यदजानता मयोक्तम्' इति । नयतेर्लुङित्यनेन भूतसामान्ये लुङ् । त्रपावानिव यथा लज्जावान् कश्चिदनुनयति तद्वत् । अङ्गदं च प्रियं तनयं काकुत्स्थे रामे व्यक्षिपत् न्यस्तवान् । यत्नादादरात् । क्षिपेरनद्यतने लङ् । लकारप्रत्ययस्यातिङीति प्रतिषेधान्न कृत्संज्ञा ॥
४२९ - म्रियमाणः स सुग्रीवं प्रोचे सद् भावमागतः - ॥
'संभविष्याव एकस्यामभिजानासि मातरि ॥ १३८ ॥
1
म्रियमाण इत्यादि - स वाली म्रियमाणः सन् सद्भावं शोभनभावमागतः सन् सुग्रीवं प्रोचे । किमित्याह । अभिजानासि स्मरसि । एकस्यां मातरि संभविष्यावः । समभवाव इत्यस्मिन्नर्थे '२७७३ | अभिज्ञावचने ऌट् | ३ |२| ११२ ॥ ' इत्यनद्यतने लृट् । अभिजानासीत्यभिज्ञावचनस्योपपदत्वात् ॥ ४३० - अवसाव नगेन्द्रेषु, यत् पास्यावो मधूनि च ॥
अभिजानीहि तत् सर्व, बन्धूनां समयो ह्ययम्. १३९
अवसावेत्यादि - अभिजानीहि स्मर । यन्नगेन्द्रेषु अवसाव उषितवन्तौ । अत्राभिज्ञावचनस्य यच्छब्द सहितत्वात् '२७७४ । न यदि | ३ |२| ११३ |' इत्यनेन लुटि प्रतिषिद्धे लडेव भवति । भन वासमात्रं स्मर्यते । मधूनि च यत्पास्यावः तत्र पीतवन्तौ तत्सर्वमभिजानीहि । अत्र '२७७५ ॥ विभाषा साका
१–‘१४४३। वृद्धप्रशस्ययोर् ज्यायान् कनीयांस् तु युवा ऽल्पयोः ।'
२- ७१५
अनूचानः
प्रवचने साङ्गेऽती ।' इति सर्वत्र ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com