SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 46, भट्टिकाव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः, शून्यश्चासि २१९१ तासस्त्योर्लोपः |७|४|५० |' इति सकारलोपः । तस्मात्को नयः । नय एव न भवतीत्यर्थः ॥ तदेव दर्शयन्त्याह १९१ - यद्यहं नाथ ! नो ऽयास्यं विन्नासा हत - बान्धवा, ॥ नो ऽज्ञास्यस् त्वमिदं सर्वं प्रमाद्यंश् चार- दुर्बलः ८ ● 9 I यदित्यादि - विनासा विगता नासा यस्याः । नासैव नासिकेति ' ८३४| केऽणः | ७|४|१३|' इति हस्वत्वे रूपं तस्या नसादेशस्य विधीयमानत्वादत्र संभव एव नास्ति । विनसेति पाठान्तरम् । तत्र विगता चासौ नासिका च विनासिका । तत इत्थम्भूतलक्षणायां तृतीयायां ' २२८ । पद्दन्नोमास् - | ६ |१| ६३|' इत्यादिना नसादेशः । विगतया नासिकयोपलक्षितेत्यर्थः । विगता नासिका अस्या इति बहुव्रीहिणा व्याख्याने अञ्नासिकेत्यादिना अच् नसादेशच प्रातः । तस्य संज्ञाविषयत्वादुपसर्गाच्चेत्य संज्ञायां विधीयमानो न भवति वेत्रों वक्तव्य इति प्रादेशो बाधकः । हे नाथ ! यद्यहं विनासा हतबान्धवा नायासं न याताऽभविष्यम्, तदा तदिदं सर्वे भ्रात्रोर्वधं नासाच्छेदं च नाज्ञास्यः न ज्ञातोऽभविष्यः । क्रियातिपत्तौ लुङ् । अज्ञाने कारणमाह--प्रमाद्यन् विषयेषु प्रमादं गच्छन् । चारदुर्बलः चारहीनः । चारा हि चक्षू राज्ञां कार्याकार्यज्ञानाम लोके । चरतीति चरः पचाद्यच् । चर एव चारः २१०६॥ प्रज्ञादि - १५१४३८' इत्यण् ॥ १९२ - करिष्यमाणं विज्ञेयं कार्य, किं नु कृतं परैः, ॥ अपकारे कृते ऽप्यज्ञो विजिगीषुर् न वा भवान् ॥९॥ करिष्यमाणमित्यादि - परैः शत्रुभिरपचयचिकीर्षया करिष्यमाणं कार्य विज्ञेयम् । किं नु कृतमेव यत्तदवश्यमेव विज्ञेयमित्यर्थः । त्वं पुनः परैरप्रकृतोऽपि भज्ञो ऽविदितस्वरूपः । अतो विजिगीषुर्न वा भवान् । भतो न राज्यं संभावयतीत्यर्थः ॥ १९३ - वृतस् त्वं पात्रे - समितैः खट्टाssरूढः प्रमाद-वान् ॥ पान - शौण्डः श्रियं नेता नो ऽत्यन्तीनन्त्वमुन्मनाः ॥ १० ॥ वृत इत्यादि - अत्यन्तं नामिनीति ' १८१२ । अवारपार - |५|२|११|' इत्यादिना खः । तस्य भावोऽत्यन्तीनत्वम् । नैवात्यन्तीनामत्यन्तगामिनीं श्रियं नेता न प्रापणशीलः । '३११५ । तृन् । ३।२।१३५ |' इति ताच्छीलिकस्तृन् । '६२७। न लोक - | २|३|६९ |' इति षष्ठीप्रतिषेधः । यद्यपि महोदयं राज्यं प्राप्तवानसि तथापि न चिरकालमित्यर्थः । यतस्त्वमुन्मनाः भ्रान्तचित्तः । यतः पानशौण्डः. Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy