SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- ८५ कारण्यात् रावणं पति प्रभुं शरणं जगाम गतवती । पारेसमुद्रम् । समुद्रस्य पार इति ६७२। पारे मध्ये षष्ट्या वा ।२।१।१८।' इत्यव्ययीभावः । तत्सन्नियोगेन पूर्वपदस्सैकारान्तत्वम् । पश्चात्सप्तमी । '६५७। नाव्ययीभावात्-१२।१८।' इत्यम्भावः । समुद्रस्य पारे स्थितायां लङ्कायां वसन्तं रावणमिति ॥ १८८-संप्राप्य राक्षस-सभं चक्रन्द क्रोध-विह्वला, ॥ ___ नाम-ग्राममरोदीत् सा भ्रातरौ रावणाऽन्तिके.॥५॥ संप्राप्येत्यादि-सा शूर्पणखा राक्षससभं संप्राप्य ढौकित्वा । राक्षसानां समेति ८२६। सभा राजा-२।४।२३।' इत्यादिना नपुंसकता । चक्रन्द क्रन्दनं कृतवती । क्रोधविह्वला क्रोधविवशा । भ्रातरौ खरदूषणावरोदीत् रुदितवती । नामग्राहं नाम गृहीत्वा । भ्रातरौ खरदूषणाविति । '३३८०। नान्यादिशिग्रहोः ।३।३।५८॥' इति णमुल । अत्र नामग्रहणविशिष्टाया रोदनक्रियाया व्याप्तुमिष्ट. स्वादुदिः सकर्मकः । रावणान्तिके रावणसमीपे । सप्तम्यधिकरणे चेति चकारादूरान्तिकार्थेभ्य इति सप्तमी ॥ तयोः किं जातमिति रावणेन पृष्टाह१८९-'दण्डकानध्यवात्तां यौ वीर! रक्ष:-प्रकाण्डको, ॥ नृभ्यां संख्येऽकृषातां तौ स-भृत्यौ भूमि-वर्धनौ.॥६॥ दण्डकानित्यादि-हे वीर! दण्डकान् दण्डकारण्यसन्निवेशान् अध्यवात्ताम् अध्युषितवन्तौ । १०७४। वसँ निवासे ।' इत्यस्माल्लुङ् । हलन्तलक्षणा वृद्धिः। '२३३२। सः सि ।।४।४९।' इत्यादिना धातुसकारस्य तत्वम् । '२२८१। झलो झलि ।८।२।२६।' इति सिचो लोपः । रक्षःप्रकाण्डको प्रशस्तौ राक्षसौ । '७४७१ प्रशंसा-वचनैश्च ।२।११६६।' इति समासः । ततः स्वार्थे कन् 'स्वार्थिकाच प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति नपुंसको न भवति । अन्यथा रूढिशब्दाः प्रशंसावचना आविष्टलिङ्गत्वादन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादानादेव समानाधिकरणाः स्युः । यथा गोप्रकाण्डमिति । तौ नृभ्यां मनुष्याभ्यां सङ्ख्ये युद्धे भूमिवर्धनावकृषातां कृतौ । कर्मणि लुङ्। अचिण्वद्भावे रूपम् । वर्धते इति वर्धनौ । २८४१॥ 'कृत्यल्युटो बहुलम् ॥३।३।११३॥' इति कर्तरि ल्युट । भूमेर्वधनाविति सः । भस्मीकृतशरीरस्य भूमौ लीयमानत्वात् । सभृत्यौ नैकाकिनौ । १९०-विग्रहस् तव शक्रेण बृहस्पति-पुरोधसा ॥ सार्धं कुमार-सेनान्या, शून्यश् चाऽसीति को नयः.७ विग्रह इत्यादि-बृहस्पतिः पुरोधा मन्त्री यस्य शक्रस्य तेन । कार्येषु पुरो धीयत इति पुरोधाः । पुरःपूर्वाद्धाञः सर्वधातुभ्योऽसुन् । तथा कुमारः कार्तिकेयः सेनानीर्यस्य । सेनां नयतीति '२९७५। सत्सू-द्विष-३।२।६।' इत्यादिना किम् । तेन शक्रेण साधं सह तव विग्रह आसीत् । इदानीं कार्यनिपुणाभावात् Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy