SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीभगवनामकौमुदी। ५३ कृष्णार्पितप्राण इत्यात्मनिवेदनोक्तिः । तत्पुरुषनिषेवयेति भगवजनसे. वोक्तिः भगवद्भक्तिप्रस्तावे किमर्थ भगवजनसेवोदाहियते ? तबाहतस्या अपीति। तत्र हेतुमाह-सर्वेति।मद्भक्तजनवात्सल्यं-नवविधायाअपि भक्तरित्यर्थः, पापतयहेतुत्वप्रतिपादनादिन्यनुषङ्गः पूर्वमेवोक्तः । कथमत्र नवविधायाभक्तेः पापक्षयहेतुत्वं प्रतीयते? तबाह-तथा हीति। व्यस्तं पृथक् पदं येषामित्यर्थे, अदःसापेक्षत्वेनेत्यर्थः, जिह्वाऽऽदिसापेक्षत्वेनेत्यर्थः, असामर्थ्यप्रसङ्गादिति । निरपेक्षत्वं हि सामर्थ्य, समर्थश्च पदविधिः, अतः समासो न स्यादित्यर्थः। गोबलीवर्दन्यायेनेति । यथा. गोपदं बलीवदंपदसहोचरितं तदितरपरं तथा विष्णुकृत्यपदं कीर्तनादिसहोचरितं तदितरपरमित्यर्थः। पदार्थमुक्का वाक्यार्थमाह-इतिन . वविधेति एकाङ्गवैकल्येनेति । एकमङ्गविशेषणंतस्य वैकल्यमभावस्तेन। प्रतिकूलमुदाहरणम् प्रत्युदाहरणं, यथाऽरुणयैकहायन्या क्रीणातीत्यु. वाहते शुक्लयैकहायन्याऽप्यनेकहायन्याऽरुणयाऽपिन क्रीणातीति गम्य. ते; एवं नवविधभक्तिहीनानामानयनप्रतिपादनेनैकभक्तिमतामनानयनं. प्रतीयते । एवं भक्तानामनानयनस्यार्थिकत्वमुक्त्वा संप्रति तस्यैव विधेयत्वमाह-तत्रापीति। अनानयनस्यार्थिकत्वेऽपीत्यर्थः। वैवस्वतं. यमम् । सङ्गमनम् नेतारम् । फलितमाह-ततश्चेति। उपपत्त्यन्तरमाहश्रवणादीनामिति । पुराणेष्विति भावः । प्रसङ्गेति। एतत् श्रवणादीनाम् पापक्षयहेतुत्वम् प्रसागतमित्यर्थः। यस्य प्रसङ्गागतं तन्निर्दिशतिप्रस्तुतमिति । नामकीर्तनस्य प्रायश्चित्ताङ्गत्वशङ्कानिरासाय प्रायश्चि. त्तानि चीर्णानीत्यादि वाक्यार्थत्वेन प्रस्तुमित्यर्थः। ननु कोऽयमधर्मो नाम यद्वासनानां निवृत्तये न प्रभवन्ति कर्माणि ? किं हननादि कम्मैव, किं वा तजन्यः संस्कारः, किं वाऽन्यः, न तावत् कर्म तस्य स्वयमेव निवृत्तत्वात् तादयेन प्रायश्चित्तविधानानुपपत्त:, अथ संस्कारः न तज्जन्यामन्यां वासनामङ्गीकुर्मः -सामध्यं चात्रैका भावरूपं प्रायं, "संमष्टार्थ समर्थमि"ति महा. भात्ये भगवत्पतञ्जल्युक्तेः, निरूप्यनिरूपकभावापनविषयताप्रयोजकोपस्थितिजनकत्वात्मकं पय्यवस्थति, तथा चात्र यच्छब्दस्य समस्तत्वे तदर्थस्यान्यत्रान्वयोsसंभवी स्याद् वृत्तवाद्, वृत्तस्य विशेषणयोगासंभवादित्यर्थः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy