SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रकाशसहिता जिह्वा न वक्ति भगवद्गणनामधेयंचेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि तानानयामसतोऽकृतविष्णुकृत्यान् ॥ इति तु यमवाक्यं नवविधाया अपि, तथा हि यदिति व्यस्तमव्ययम् , अन्यथा यच्छिर इति समासे जिह्वाचेतःशब्दाभ्यां सम्बध्यमानस्य यच्छब्दस्यादःसापेक्षत्वेनासामर्थ्यप्रसङ्गाद, विष्णुकृत्यमिति च कीर्तनस्मरणवन्दनेभ्योऽवशिष्टं श्रवणादिषट्कं गृह्यने गोबलीवईन्यायेन, न कृतं विष्णुकृत्यं यैस्तेऽकृतविष्णुकृत्यास्तानानयध्वमिति नवविधभक्तिहीनानामानयनप्रतिपादनेनैकैकभक्तियुक्तानामनानयनं प्रतीयते, एकाङ्गवैकल्येन प्रत्युदाहरणनियमात् , तत्रापि “वैवखतं संगमनं जनानामि". तिश्रुत्याऽऽनयनस्योत्सर्गतःप्राप्तत्वाद्, भक्तानामनानयनमेव विधीयते,अप्राप्तत्वात् ,ततश्च नवविधाया भक्तरैकैकश्येन कृत्लपापक्षयहेतुत्वमिति भावः। श्रवणादीनातु माहात्म्यं खस्वप्रकरणे विशेषतोऽवगन्तव्यम् । प्रसङ्गागतं चैतत्, प्रस्तुतं पुनरधर्मवासनानिवृत्तिहेतुत्वं भक्तरेव न कर्मणामिति । मुख्यं पक्षमाह-अथ वेति । सर्वप्रकारा नवविधेत्यर्थः । अन्येषा. मिति। श्रवणादीनामित्यर्थः । शृङ्गग्राहिकयेति । यथा गोविशेषः शृङ्गे गृहीत्वा प्रदर्श्यते; एवं श्रवणादीनां प्रत्येकं पापक्षयहेतुत्वंप्रतिपाद्यत इत्यर्थः । तदेवाह-तत्रेति । श्रवणादिषु मध्ये। तद्गुणेति । कृष्णगुणानुरागि मन इत्यर्थः । चीर्णेति । चीणं कृतं निष्कृतं प्रायश्चित्तं कृष्णचरणारविन्दस्मरणरूपं यैस्त इत्यर्थः । स्मरणस्येति । पापतयहेतुत्वप्रतिपादनादित्यनुषङ्गः । एवं पादसेवनस्यात्मनिवेदन स्य भगवजसेवायाश्च नवविधाया अपीत्येषु पदेवयमेवानुषतः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy