________________
[ 900 ]
सर्व भ्रम रहितः ॥ अतएव स्वसमय परसमय पदार्थ सार्थः विस्तारण समर्थ स्वसिद्धांत पर सिद्धांतानां पदार्थ सार्थास्तत्रपदानि विभक्तितानि तेषां अर्था पदार्थास्तेषां सार्थासमूहास्तेषां विस्तारणे विस्तर प्रकाश नेपटुः ॥ ६४ ॥ यै श्रीजिनेश्वराचायें नाममात्र धारकाचायैः समं सह विचारं धर्मवादं कृत्वा वसतौ निवासोऽवस्थानं साधूनां स्थापित प्रतिष्ठापितः प्रतिष्ठितस्थापितः स्थिरीकृतः आत्मकोयलंकृत इत्यर्थः ॥ किंविशिष्टयै विवादे क्ववसत्ति व्यवस्थापनं, अणहिल पाटके अणहिल्ल पाटकाख्य पत्तने कीदृशे पाटके नाटक इव, दशरूपाख्ये शास्त्रविशेषे इव कीदृशे ॥ अणहिल्ल पाटके नाटके च, उभयोरपिश्लिष्टंविशेषण सप्तक माह ॥ दसिय सुपत्त संदोहे, दर्शितचक्षुर्विषयतांनीतः सुपात्राणां संज्ञाजनानां स्थालक कच्चो खादीनां हस्थापितानां संदोहः समूहो यत्र ॥ नाटक पक्षे, राम लक्ष्मण सीता लंकेश्वर विभीषणादीनि सुपात्राणि ज्ञेयानि, तस्मिन् दर्शित सुपात्र संदोह ॥ ९ ॥ संदेहे इति पाठेतु, पत्तने पत्त नपक्षे समंजसचारित्र साधुवेषबिडंबक कुर्याति दर्शनेन भव्यानां मनस्य यं संशयः यदुत किमस्ति क्वापि सत्पात्र' नवेति, अतउक्तं, दर्शित सुपात्र संदेहे ॥ नाटक पक्षे, दर्शितानि सुपात्राणां रामादीनां संसम्यक् देहाः शरीराणि यत्र, तस्मिन् दर्शितसुपात्र संदेहे ॥ ९ ॥ तथा ॥ परपए इति प्रचुराणि प्रभूतानि प्रतिगृहद्वारकुपिका सहस्र लिंग महातड़ाग वाप्यादिसद्भावेन पयांसि जलानि यत्र, तस्मिन् प्रचुर पयसि ॥ नाटक पक्षे ॥ प्रचुराणि प्रलम्बानि दीर्घसमासानि पदानि यत्र तस्मिन् प्रचुर पदानि ॥ २ ॥ बहुकवि दूसगे इति, बहूनि अनेकानि कवयः काव्य कर्त्तारः दुष्यानिवस्वाणि च यत्र तस्मिन् बहुकविदूषके । नाटक पक्षेतु ॥ बहुकाः प्रभूता विदूषका क्रिडा पात्राणि यत्र तस्मिन् बहुक विदूषका ॥ ३ ॥ तथा ॥ संनध्यगा युगये इति, शोभन नायके वशिष्ट मण्डल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com