SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ७४ जम्बूस्वामिचरिते अंते समाधिना मृत्यु संप्राप्य विमलाचले । पण्डितं मरणं प्राप्तं द्वाभ्यां च शुभयोगतः ॥ २३८॥ ततस्तृतीये स्वर्गे द्वौ सनत्कुमारसंज्ञके । अभूतां दिविजो राजन् सप्तसागरजीवितौ ।। २३९ ॥ तत्र दिव्याप्सरोभोगान् भुंजानौ मुखमासतुः। द्वावपि व्रतमाहात्म्यात्पुत्रावार्यवसोनृप ॥ २४० ॥ यस्य धर्मस्य माहात्म्यात्तौ जातावमरेश्वरौ । स धमः शर्मसंसिद्धचै सेव्यः सद्भिर्निरन्तरम् ।। २४१ ॥ इतिश्रीजम्बूस्वामिचरिते भगवच्छ्रीपश्चिमतीर्थकरोपदेशानुसरितस्याद्वादानवद्यगद्यपद्यविद्याविशारदपण्डितराजमल्लविरचिते साधुपासात्मजसाधुटोडरसमभ्यार्थते भावदेवभवदेवसानत्कुमारस्वर्गगमनवर्णनो नाम तृतीयः परिच्छेदः । १ मरणं त्रिविधं बालमरणं बालपण्डितमरणं पण्डितमरणं च । असंयतसम्यग्दृष्टीना मरणं बालमरणं । संयतासंयतानां मरणं बालपण्डितमरणं । केवलिनां मरणं पण्डितमरणं।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy