SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रेणिक महाराजसमवसरणगमनवर्णनम् चत्वारोऽपि महात्मानो लब्धसम्यक्त्व भूमिकाः । क्रमाच्यक्तशरीरास्ते दिवि' यास्यत्यसंशयम् ।। १७४ ।। तदात्वेऽनंतरं तत्र मूर्ध्नि राज्ञोऽपतत्पविः । ततोऽप्यनंतरं नश्येद्विद्दि (१) शय्यागृहादिकम् ।। १७५ ।। दधिदुग्धघृताद्याश्च सर्वे गोरसपर्ययाः । क्षणादेव विलीयते पापांशादिव संपदः ।। १७६ ।। ततो दुःषमदुःषमाख्यः षष्ठः कालः प्रवर्तते । विनष्टभोगसंपत्को दुष्टश्चान्वर्थसंज्ञकः ।। १७७ ॥ तत्र पोडशवर्षाणां परमायुर्जिनोदितम् । हस्तकं वपुरुत्सेधमुत्कर्षेण नृणां मतम् ॥ १७८ ॥ मध्यं तथा जघन्यं च विज्ञेयं परमागमात् । तद्वदायुः शरीरेषु तिरश्चामपि तत्त्रयम् ।। १७९ ।। यथा दुःखातुराः सर्वे तिर्यचश्च तथा नराः । फलाद्याहारभोक्तारो भूरंध्रेषु निवासिनः ।। १८० ।। नरा वल्कलवखाढ्या मिथस्ते च विरोधिनः । तिर्येचोऽपि महाक्रूरा युद्धं कुर्वन्त्यहर्निशम् ।। १८१ ॥ हत्वा परस्परं पापाः फलं खादति निर्दयाः । धर्मबुद्धेरभावाच्च दुष्टकालप्रभावतः ।। १८२ ।। मेघाः कचित्कदाचिच्च तत्र वर्षति वर्षतः । तेषां नैसर्गिकी तृष्णा प्रशमं याति न कचित् ॥ १८३ ॥ इत्थं वर्षसहस्राणामेकविंशतिसंख्यकः । कालो गच्छति जंतूनां दुःखं दुष्कर्मपाकतः ॥ १८४ ॥ १ स्वर्गे । २ वज्रम् । ३ भूमिविलेषु । ३५
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy