SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिनिर्वाणगमनवर्णनम् तदागच्छत्स बैल (र) क्त्यं भानुरस्ताचलं श्रितः । घोरोपसर्गमेतेषां स्वयं द्रष्टुमिवाक्षमः ॥ १२७ ॥ अब्रवीच्चंडमारीति काचित्तद्वनदेवता । २१७ मुने पंचदिनान्यत्र स्थातव्यं न त्वयाधुना ॥ १२८ ॥ आगत्य सप्त (?) यात्रायै भूतप्रेतादयस्त्विह । क्षुद्रा वाघां करिष्यंति युष्माकं सोडुमक्षमां ॥ १२९ ॥ अतस्त्वैतत्परित्यज्य स्थानमन्यत्र गम्यताम् । दुर्निमित्तं त्यजति ज्ञाः संयमध्यानसिद्धये ।। १३० ॥ इत्युक्त्वा सा गता तूर्ण चंडमारी निजालयम् । ऊचे विद्युच्चरः प्राज्ञो मुनिमुद्दिश्य साम्यतः ॥ १३१ ॥ अहो बृद्धगणा यूयं मा कुर्वेतु हटक्रियाम् । निष्प्रमादतया चातः स्थानादन्यत्र गम्यताम् ॥ १३२ ॥ श्रुत्वैतन्मुनयः केचिदूचुर्निशंकिताशयाः । अस्तं गते दिवानाथे नेयं कालोचितक्रिया ।। १३३ ।। विभ्यतां कीदृशो धर्मः स्वामिन्निःशंकिताभिधः । उपसर्गसहो योगी प्रसिद्धः परमागमे ।। १३४ ॥ भवत्वत्र यथाभाव्यं भाविकर्मशुभाशुभम् । तिष्ठामो वयमद्यैव रजन्यां मौनवृत्तयः ।। १३५ ॥ निशम्यैतद्वचस्तेषां तस्थौ विद्युच्चरो मुनिः । नैशं योग प्रतिष्ठाप्य मौनमालंव्य धीरधीः ॥ १३६ ॥ ततोऽन्धतमसा व्याप्तमाशामास्यं दुरीक्षणात् । विश्वं जिघत्सुमायातो लयःकाल इव क्षणात् ।। १३७ ॥
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy