SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ २ जम्बूस्वामिचरिते तदत्र जातावपि जातजन्मनः समेकछत्रीकृतदिग्वधूवरान् । प्रकाशितुं नालमिहानुभूभुजः कवीन्द्रवृंदो लसदिंदुकीर्तिः ॥ ७ ॥ अतः कुतश्चित् कृतसाहिसंज्ञकः स माननीयो विधिवद्विपश्चिताम् । यथा कथा बावरवंशमाश्रिता प्रकाश्यते सद्भिरथो निरंतरम् ||८|| सुश्रीवरपातिसाहिरभवन्निर्जित्य शत्रून्वलादिल्लीशोऽपि समुद्रवारिवसनां क्षोणीं कलत्रायताम् । कुर्वनेकवल दिगंगजमलं क्रीडन यथेच्छं विभुः स्याद्भूपालकपालमौलिशिखरस्थायीव सग्यद्यशः ॥ ९ ॥ तत्पुत्रोऽजनि भानुमानिव गिरेराक्रम्य भूमंडलं भूपेभ्यः करमाहरन्नपि धनं यच्छन् जनेभ्योऽधिकम् । उद्गच्छत्स्वकरप्रतापतरसा मात्सर्यमब्धेरधः प्रज्ञापालतया जडत्वमहरन्नाम्ना हुमाऊनृपः ॥ १० ॥ तत्सूनुः श्रियमुद्वहन् भुजवलादेकातपत्रो भुवि श्रीमत्साहिरकब्बरो वरमतिः साम्राज्यराजद्वपुः । तेजःपुंजमयो ज्वलज्ज्वलन जज्वालाकरालानलः सर्वान् दहति स्म निर्दयमना उन्मूल्य मूलादपि ॥ ११ ॥ शशीव दीप्तः किल शैशवेऽपि यः कलाकलापैर्ववृधे समुज्ज्वलैः । १ आसीदुसमप्रवेशविदिता या स्वर्धुनीवामला नानाभूपतिरत्नभूरिव परा जातिश्वगत्ताभिधा । तस्यां बाबरपातिसाह्रिरभवन्निर्जित्य शत्रून् बला दिल्लीमण्डलमण्डितात्मयशसा पूर्णप्रतापानलः ॥ लाटीसंहितायाम् १-५९ ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy