SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ नमः श्रीवीतरागाय पण्डितराजमल्लविरचितं जम्बूस्वामिचरितम् उद्दीपी (प्ती ?) कृतपरमानंदाद्यात्मचतुष्टयं च बुधाः । निगदति यस्य गर्भाद्युत्सवमिह तं स्तुवे वीरेम् ॥ १ ॥ बहिरंतरंगमंग संगच्छद्भिः स्वभावपर्यायैः । परिणममानः शुद्धः सिद्धसमूहोऽपि वो श्रियं दिशतु ॥ २ ॥ चरित्रमोहारिविनिर्जयाद्यतिर्विरज्य शय्याशयनाशनादपि । व्रतं तपःशीलगुणांव धारयंत्रयीव जीयाद्यदि वा मुनित्रयी ॥३॥ रवेः करालीव विधुन्वती तमो यदांतरं स्यात्पदवादिभारती । पदार्थसार्थी पदवीं ददर्श या मनोम्बुजे मे पदमातनोतु सा ||४|| अथास्ति दिल्लीपतिरद्भुतोदयो दयान्वितो बब्बरनंदनंदनः । अकव्वरः श्रीपदशोभितोऽभितो न केवलं नामतयार्थतोऽपि यः ५ अस्ति स्म चाद्यापि विभाति जातिः परा चगत्ताभिधया पृथिव्याम् परंपराभूरिव भूपतीनां महान्वयानामपि माननीया ॥ ६ ॥ १ ज्ञानानन्दात्मानं नमामि तीर्थंकर महावीरम् । यश्चिति विश्वमशेषं व्यदीपि नक्षत्रमेकमिव नभसि ॥ लाटीसंहितायाम् १-२ | २ त्रयीं नमस्यां जिनलिङ्गधारिणां सतां मुनीनामुभयोपयोगिनाम् । पदत्रयं धारयतां विशेषसात् पदं मुनेरद्विनयादिहार्थतः ॥ लाटीसंहितायाम् १-४ |
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy