________________
१३ ग्रन्थः] आख्यातनक्तिवादः।
१५१ तीति विवरणधर्म्यशे शहिवारणायाह-बाधकं विनेति । रथो गच्छतीत्यादी व्यापाविवरणेऽपि तत्वस्य गुरुत्वान्न शक्यतावच्छेदकत्वम् । अतो बाधकं क्नेितीति केचित् विवरणादायाति तदाहुः। शक्तिग्रहं व्याकरणोपमानक्रोशानवाक्याव्यवहारतश्च । वाक्यस्य शेषाद्विवृत्ते वदन्ति सानिध्यतः सिद्धपदस्य वृहाः। विवरणं चातुमानविधया शक्तिग्राहकत्वम् । यत्नवं आख्यातवाच्यतावच्छेद. कम् । यत्नत्वविशिष्टबोधकं तदीयविवरणविषयतावच्छेदकत्वात् । अभियुक्तानवाच्यतावच्छेदकत्वेन तात्पर्यविषयाद्वा । आख्यातं यत्नत्वविशिष्टबोधकम् । यलत्वविशिष्टबोधकपदाभिळप्यमानार्थकत्वात् , इति वा अनुमानम् ।
ननु विवरणं सन्दिग्धम, मीमांसकैर्व्यापारवानित्येव विवरणा-यद्वा । अन्यलभ्यत्वं धर्मिणि शक्तौ यथा बाधकं तथाऽन्यलभ्यत्वयलेऽपि इत्याशयेनाह-किं करोतीति । यदूपविशिष्टे प्रभविषयत्वसम्बन्धः प्रभवाक्येन प्रतिपायते तद्रूपविशिष्ट विशेषधर्मेण तत्सम्बन्धबोधकोत्तरवाक्यादेव प्रमनिवृत्तिः । तथा च किंविषयकयत्नवानिति प्रश्ने पचतीति वाक्यस्य पाकविषयकयत्नवानित्यर्थकस्वं विनानुपपत्तेरित्यर्थः। किमिच्छतीति प्रश्ने घटमिच्छतीत्युत्तरवत् । यद्यपि किं करोतीति प्रश्ने पाकमित्येवोत्तरमुचितं तथापि संशयनिवर्तकविशिष्टार्थबोधकोत्तरवाक्यप्रयोग एव साम्प्रदायिक इत्यभिप्रायेणेदम् । अचेतने अचेतनान्वितार्थबोधके ॥ १ ॥
रामकृष्णनिर्मिता व्याख्या। मुकुन्दचरणद्वन्द्वमाधाय हृदयाम्बुजे ।
आख्यातवादसव्याख्या रामकृष्णेन तन्यते ॥ १॥ आख्यातस्येति । यत्नत्वमाख्यातवाच्यतावच्छेदकमित्यर्थः। तेन व्यापारशक्तिवादिना यत्ने सामान्यत: शक्तिस्वीकारेऽपि न सिद्धसाधनम् । एवं च यत्नत्वमाख्यातवाच्यतावच्छेदकम् । तत्त्वबोधकविवरणवत्वादिति प्रयोगः। विवरणं प्रमाणत्वव्याप्यमिति हेतौ तत्प्रवेशः। बाधकमिति । कुत्रचिदाश्रयत्वप्रतियोगित्वादिविवरणेऽपि गौरवान्न तत्र शक्तिरित्यर्थः । व्युत्पत्तरिति । व्युत्पत्ति: शक्तिग्रहः । कोशादिवत् पिकः कोकिल इत्यादिविवरणे यथा कोकिल: पिकपदवाच्य इति बोधस्तथा पचति पाकं करोतीत्यादिविवरणस्यापि तत्तदर्थे तत्तत्पदवाच्यताबोधकत्वमिति विवरणं शक्तिग्राहकमिति भावः।
एवं विवरणस्थले समभिव्याहारान्तरस्थपदार्थकथनम् । कोशस्थले तु समभिव्याहारस्थस्यैवार्थकथनमिति भेदः । तादृशं विवरणं न सर्वसंमतमत आह