________________
वादार्थसंग्रहः शिरोमणिकृताख्यातशक्तिवादः । आख्यातस्य यत्नो वाच्यः पचति पाकं करोतीति यत्नार्थककरोतिना सर्वाख्यातविवरणात् । व्यवहरादिव बाधकं विना विवरणादपि व्युत्पत्तेः किरोतीत्यादियत्नप्रश्ने पचतीत्याद्युत्तरस्य यत्नार्थकत्वं विनानुपपत्तेश्च । अचेतने रथो गच्छतीत्यादौ च अनुकूलव्यापारे लक्षणेति प्राश्वः ॥१॥ .
न्यायवाचस्पतिकृता व्याख्या। आख्यातस्येति । अभियुक्तानां तादृशपरिभाषाविषयत्वरूपं आख्यातत्वं न शक्यतावच्छेदकं तदज्ञानेऽपि शाब्दबोधात् । किंतु तिङादिकम् । तत्त्वं दशलकारसाधारणं तथा, तदज्ञाने शक्तिभ्रमाच्छाब्दधीरिति केचित् । एवं सति आख्यातत्वस्यैव तथात्वौचित्यात् । शक्यतावच्छेदकलाघवादेश्च सर्वत्र तत्पदस्यैव शक्तिकल्पनात् । घटादिपदानां शक्ति विलोपापत्तेरिति । एवं कृतेऽपि यत्ने शक्तिः । लटः शतृशानचाविति सूत्रेण लटस्तयोरादेशत्वावगमात् । किंच तिकादिकमेव । वर्तमानस्वादियत्नयोरेकोचारणान्तभावे सा पुष्पवन्तादिपदवत् शक्यतावच्छेदकम्, अतएवातीतयत्ने वर्तमानबोधे न तात्पर्यम् । तत्र पचतीत्यादि न प्रयोगः । उक्तपुष्पदन्तावितिवत् । अन्यथा लकारस्य तत्र सत्त्वात् सामान्यतः केवलयलभानापत्तेः, यत्नो वाच्यः। यत्नत्वं वाच्यतावच्छेदकमित्यर्थः।
सर्वाख्यातेति । व्यापारबोधकसर्वाख्यातेत्यर्थः । शक्याबोधकत्वेनोभयमतसिद्धसर्वाख्यातेत्यर्थ इति वा । तेन नश्यतीत्यादौ तथा विवरणेऽपि न क्षतिः । अथवा सर्वाख्यात-विभाजकोपाधेर्यस्नार्थक-पचवित्रीयमाणार्थकवृत्तित्वादित्यर्थः । पचेत्पाकं कुर्यादित्यादिना लिडापर्थस्यापि विवरणात् । विवरणं तदर्थबोधाभिप्रायपूर्वकतदर्थस्वाभिमतकथनम् । पचति पाकं करो
१ यत्नवाचकत्वम् इ. पाठः । २ 'शक्तिग्रहात्' इ. पाठः । ३ तीति प्रश्ने इ. पाठः। ४ त्युत्तर-इति पाठः ।