SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ र । COL तत्र प्रसक्तिः । ज्ञानत्वावान्तरजातिभेदा वा अनुभवत्वम् । स्मृतिव्यतिरिक्तज्ञानत्वं वेति ॥ २ ॥ साधनमाश्रया वेत्युक्तमेवार्थं विषयविशेषव्यवस्या प्रपञ्चयति ॥ नित्यानित्यतया द्वेधा प्रमा नित्यप्रमाश्रयः । प्रमाण मितरस्यास्तु करणस्य प्रमाणता ॥ ३ ॥ एवं च नित्यप्रमाश्रयत्वादीश्वरस्यापि प्रतितन्त्र सिद्धान्तसिद्धं प्रामाण्यमपि लक्षितं भवति । तदुक्तम् । श्राप्तप्रामाण्यादिति । तन्मे प्रमाणं शिव पकमिति भावः । प्रमेतिस्मृतित्वसंशयत्वा दिव्युदासः । अप्रमेति प्रमात्वादिनिरासः (१) । शेषं सत्तागुणत्वज्ञानत्वनिरासाय | साक्षात्पदेन परोक्षत्वादिव्यावृत्तिः । अथ रूढिवा गुरुमतवादित्याह । स्मृतिव्यतिरिक्तज्ञानत्वं वेति । न च स्मृतिरप्यनुभवव्यतिरिक्तेत्यन्योन्याश्रयता | स्मृतेः पूर्वज्ञानजसंस्कारमात्रजन्यत्वेन लक्षणे तदनपेक्षणादिति ॥ २ ॥ उत्तरलोकं पूर्वपनरुक्त्येनावतारयति । साधनमाश्रयो वेति । नित्यप्रमाया आश्रय एव प्रमाणं तस्याः करणासम्भवात् । अनित्यायास्तु करणमेव प्रमाणम् । सम्भवे ऽप्याश्रयस्य प्रमाव्याप्त्यभावादिति भावः । नित्यप्रमाश्रयप्रामाण्यकथनफलमाह । एवं चेति । तदलक्षणे सिद्धान्तविरोध सूचयति । प्रतितन्त्रसिद्धान्तसिद्धमिति । स्वतन्त्रमात्रसिद्धमित्यर्थः । तत्र सूत्रसंवादमाह । तदुक्तमिति । मन्त्रायुर्वेद (१) व्युदासः-पा. E पु. | a - No. 12, Vol. XXI. - December, 1899. ६७३
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy