SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ जातिनिरूपणम् । तथा शब्दपरीक्षायां श्रन्यदन्यस्मादनन्यदित्यन्यताभावः अनियमे नियमान्नानियम इति । अस्यां च विषयिधर्मेोपलम्भः कारणम् । श्रापाततः प्रतिकूलतर्क आरोप्यः अतिपीडायाम सिद्विरनैकान्तिकं वा । प्रत्युत्तरं विषयिधर्मः स्वात्मनि ताद्रूप्येण वर्तत इति पक्षं कक्षीकुर्मः । न च स्वात्मना विषयीकरणं किं तु तदात्मकत्वमिति न स्वरूपव्याघातप्रसक्तिः । तदिदमनङ्गाधिक्यं स्वात्मना विषयत्वस्यानङ्गस्यैवाङ्गीकारात् । तदुक्तम् अनुपलम्भात्मकत्वादनुपलब्धेरहेतुरिति । श्रस्याप्युपलक्षणत्वादुपलम्भात्मकत्वादुप 249 पत्तिरूपेण स्वात्मनि वृत्तावृत्तौ विप्रतिपत्यभावादव्यवस्थात्मकं ज्ञानं संशय इति न वक्तव्यमुभयथाप्यव्यवस्थाया अभावादिति सूत्रतात्पर्यम् । अन्यदन्यस्मादिति । पूर्वीकेभ्यः पञ्चादुक्तानां वर्णीनामन्यत्वात् न वर्ण नित्या इति न वक्तव्यम् अन्यत्वस्य धर्मेभ्योऽन्यत्वेन अनन्याभावादभिव्यञ्जकानां प्रतिवादिनामभिव्यङ्गयविशेषे नियमाभावान्न वर्णविशेषाः प्रयत्नव्यङ्गया इति न वक्तव्यम् उभयथाप्यनियमाभावादिति सूत्रान्तराभिप्रायः । प्रतिकूलतर्क आत्माश्रयरूपः न विषयीकरण विषयवन्न स्वमवलम्ब्य प्रवर्तनं तदात्मकत्वं तत्तद्रूपम् अनुपलम्भात्मकत्वादनुपलब्धिरूपत्वादनुपलब्धेर सत्त्वप्रतिपादक हेतुना स्वानुपलब्धेरहेतुरिच्छात्मकत्वादिच्छाया अहेतुरित्याद्या ५४७.
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy