SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ छलनिरूपणम् । तत्र गौणं लाक्षणिकं वार्थमभिप्रेत्य वाकाप्रयोगे वक्तुरनभिप्रेतमेव मुख्यार्थमारोप्य तदसम्भवेन दूषणाभिधानमुपचारच्छलम् । यथा गङ्गायां घोषः प्रतिवसति सिंहो देवदत्त इति वा प्रयुक्त कथं जले घोषवासः कथं देवदत्तः सिंह इति वा प्रत्यवस्थानम् । अभिधातात्पर्य थप चारवृत्तिव्यत्ययेन कल्पितार्थनिषेध इति त्रयाणां सङ्क्षेपता लक्षणम् । कूलं च २४५ सादृश्यनिबन्धना वृत्तिगौणीत्यर्थः । अथैवं लक्षणवाक्यस्थपदार्थमभिधाय तद्वाक्यार्थमाह । तत्र गौणमित्यादि । उभयमुदाहरति । यथेति । अथ शिष्यासुखवार्थ छत्रयस्यापि लक्षणत्रयं सङ्गृह्याह । अभिधेति । अभिधावृत्तिव्यत्ययेनोपचारवृत्तिव्यत्ययेनेत्यादि योज्यम् । तथा च वाच्यान्तरे प्रयुक्तस्य शब्दस्याविवक्षितवाच्यान्तरारोपेण तथैौपचारिकार्थस्यानभिमतमुख्यार्थीरोपेण सम्भावनामात्राभिप्रायेणोपन्यस्तस्यार्थस्य हेतुत्वारोपेण वचनविधाताः क्रमेण वागुपचारसामान्यच्छलानीत्यर्थः । अथैषामुद्भवोद्भावनयेोरवसरमाह । छलं चेति । अत्र नवकम्बलोऽयं माणवकः मच्चाः क्रोशन्तीति च वादिना प्रयुक्ते ततो द्वितीयकक्षायां प्रतिवादिना वागुपचारच्छadraraणोद्भवः ततस्तृतीयकक्षायां वादिनोद्रावनं सामान्यच्छलस्य तु ब्राह्मणोऽयमनूचान इति वादिनाके क्रमामुद्भवः तदुत्तरकक्षायां प्रतिवादिनोद्भावनमित्यर्थः । तत्र यथाकालमनुद्भावने छलप्रयोक्तुर्निरनुयो १०७
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy