________________
तर्कनिरूपणम् ।
१९५
भवतीति तत्र तर्कमनन्यथासिद्धिं च पुरस्कृत्य प्रवर्तत (१) इति । तर्कस्य शब्दप्रमाणानुग्राहकत्वं मीमांसाचार्यै(-)
रप्युक्तम् ।
धर्मे प्रमीयमाणे हि वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥ इति ।
भगवता मनुनापि । आषं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धन्ते स धर्मं वेद नेतरः ॥ इति ॥ ७४ ॥
कोऽयं तर्कसाध्यः प्रमाणानुग्रह। यत्करणेनाधर्म इत्यादि । धर्मप्रतीता वेदः कारणं चोदनालक्षणोsur धर्म इत्युक्तत्वात् । तस्य च कृत्यं मीमांसाशा - । स्त्रमितिकर्तव्यतानुग्राहकतर्कतया तत्प्रामाण्यनिर्वाहकमित्यर्थः ।
मनुनापीति । शब्दप्रमाणानुग्राहकत्वमुक्तमित्यनुषङ्गः । आषं ऋषिप्रोक्तम् धर्मेौपदेशं मानवादिधर्मशास्त्रं च यस्तर्केणेत्यादि येोज्यम् । चकारः
प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशास्त्रमभीप्सता ॥ इति । पूर्वश्लेोको क्तप्रत्यचादित्रयसमुच्चयार्थः ॥ ७४ ॥ नन्वनुग्रह उपकार इत्यसन्दिग्धमेव तत् किमर्थमुत्तराडी व्याख्यायत इत्याशय तद्विशेषजिज्ञासायामित्याह | कोऽयमिति । निष्प्रयोजनस्यापि अजिज्ञास्यत्वात्
(१) सिद्धं च पुरस्कृत्य प्रवृत्तेरिति पा० पु.
(२) मीमांसकै - पा. C पु. | मीमांसकाचार्यै - पा. D पु.
१८०—– No. 12, Vol. XXII. - December, 1900.
७३७