SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ SwamentaSHADSENERAantaran भूमिका । ११ त्सरे उदयनाचार्याणां स्थितिरासीदित्यप्युक्तम् । तस्मात् "वाचस्पतेरुदयनस्य तथापरेषा"मिति वदतस्तार्किकरक्षाकतरुदयनाचार्यसमयपश्चाद्भाविना वरदराजाचार्यस्य तथा अमात् किञ्चित्पश्चाद्भाविन एतत्समानकालिकस्य वा तार्किकरक्षाटीकालघुदीपिकाकर्तुर्विष्णुस्वा मिशिष्यस्य ज्ञानपूर्णस्य च १०४१ संवत्सरादनन्तरं ११४७ संवत्सरात् पूर्व स्थितिरासीदित्यनुमीयते ॥ वरदराजाचार्येण 'आलोय दुस्तरगभीरतरान् निबधान्" इत्याधुक्तत्वात् तार्किकरक्षाग्रन्थसमालोचनात् मल्लिनाथेन चापाद्धाते "इह खलु तत्रभवान् बालानुकम्पी वरदराजः सकलन्यायशास्त्ररहस्योपदिदिक्षया स्वविरचिततार्किकरक्षाश्लोकव्याख्यानाय सारसङ्ग्रहं नाम प्रकरणमारममाण" इत्याधुक्तत्वात् सिहं भवति यत् सूत्राणामतिसंक्षिप्तत्वात् भाष्यवार्त्तिकादिग्रन्थानां विस्तृतत्वाद्दरूहत्वाच न्यायसिद्धान्तसिद्धान् प्रमाणादिपदार्थान प्रथमतः श्लोकात्मकेन ग्रन्थेन निबबन्ध पश्चात् तस्याप्यस्फुटार्थत्वं विचार्य सारसंग्रहटीकाग्रन्थेन व्याख्यातवान् । केचित्तु तार्किकरक्षाग्रन्थं तर्ककारिकानाना व्यवहूतवन्तोऽदः पुरातनं न्यायप्रकरणं वरदराजाचार्येण स्वकृतया सारङ्ग्रहाभिधटीकया विशदीकृतमिति वदन्ति । तन्मन्दम् ज्ञानपूर्णेन लघुदीपिकायाम् "पुरा वरदराजेन न्यायशास्त्रार्थसंग्रहः । कृतः परत्वता बुद्धा (?) पद्यानां दुर्ग्रहार्थताम् ॥ तेनैव रचिता व्याख्या सा च शास्त्रपदं गता। । ततस्तदर्थसिड्यर्थ करोमि लघुदीपिकाम् ॥" इत्याधुक्तत्वात् । ।
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy