________________
40 ]
श्रीसिद्धहेमचन्द्र शब्दानुशामने
नेत्रं वक्त्रपवित्रपत्रसमरो शीरान्धकारा वरः,
केदारप्रवरौ कलीरशिशिरावाडम्बरो गह्वरः । क्षीरं कोटरचक्रचुक्रतिमिराङ गारास्तुषारः शर
भ्राष्ट्रोपहरराष्ट्र तक्रजठरार्द्राःकुञ्जरः पञ्जरः ॥ २६ ॥ नेत्रो नयनं परिधानविशेषश्च, वक्त्रो मुखं, पवित्र. पावनं, गुणवत्तेस्त्वाश्रयलिङ्गता, पत्रं पर्ण वाहनं च, समरः रणं, उशीरः वीरणीमुलं, अन्धकारः तमः अर्थप्राधान्यान्नीलपङ्कदिनकेसरावपि वरः श्रेष्ठः देवतादेश्व,-मनागिष्टे त्वव्ययं, अन्ये, तु क्लीबम् । केदारः वप्रः, प्रवरो गोत्रविशेष: हिमं च, कुलीरः कर्कटकः, शिशिरः ऋतुविशेषः अाडम्बरं करिर्गाजतं पटह उद्धतवेषादिश्च, गह्वरं बिलं निकुञ्जः दम्भश्च, क्षीरः दुग्धं, जले तु नपुसकत्वं, कोटरं छिद्रं निष्कुहश्च, चक्रः प्रायुधम् : रथाङ्ग, संघातः राष्ट्र कटकं च,स्वल्पह्रस्वयोः कपि चक्रिका दुरुद्योगः घुरणावर्तश्च. चुकं अम्लो रसः अम्लव्यञ्जनं च, तिमिरः तमः, अङ्गारः अग्निदग्धकाष्ठशकलं तुषारः हिम. शरः बाणः दधिसारश्च, भ्राष्ट्र अम्बरीषः, उपह्वरः उपसर: रहः समीपंच, राष्ट्र: जनपदः उपद्रवश्च, तकं उदश्वित्, जठरं उदरं, आर्द्रः शृङ्गवेरं कुञ्जरः गजः, पञ्जरं वीतसम् ।। २६ ।।
कर्पूरनपुरकुटोरविहारवारकान्तारतोमरदुरोदरवासरारिण । कासारकेसरकरीरशरीरजीरमजीरशेखरयुगंधरवज्रवप्राः ।। २७ ।। .
कर्पूरं घनसारः, नूपुरो गञ्जीरः, कुटीरं ह्रस्वा कुटो, विहारं भिक्षुस्थान यतिचर्या च, वार: परिपाटि: अवसरः समूहश्च कान्तारो महारण्यं, तामरं शस्त्रविशेषः दुरोदरं पणः, वासरं दिनं. कासारः पल्वलं, केसर: किल्कः सटा च, करीरं वंशाधङ कुरः घटश्च, शरीर: कायः, जीरं अजाजीक: जीरकोऽपि च, मञ्जीरः नुपूर, शेखरं शिरोभूषणं, युगंधरं बरं, वज्र अशनिः रत्नं च, व क्षेत्र रोधश्च ।। २७ ।।
प्रालवालपलभालपलालाः, पल्वलः खलचषालविशालाः।
शूलमूलमुकुलास्तलतैलौ तूलकुड्मलतमालकपालाः ॥२८ ।।
प्रालवालं पावालं, पलं मांसं मानविशेषश्च, भालं ललाटं, पलालं धान्यादे: शुष्कनालं, पल्वलः कासारः, खलः पिण्याकः दुर्जनश्च, दुर्जने अाश्रयलिङ्गोऽप्ययमित्येके, चषालः यज्ञपात्रं, विशालः विस्तीर्णता गुणवृत्तेस्त्वाश्रयलिङ्गता, शूलं प्रायुधं मूलं पादिः प्रतिष्ठा च, मुकुलं कुड्मलः तलं अधः स्वभावश्च, पृष्ठे तु लान्तत्वान्नपुसकः, तैलं ति लादिस्नेहः, तूलं पित्रः, कुड्मलो मुकुलः, तमालो वृक्षविशेषः, कपालं शिरोऽस्थि घटादिशकले वजे भिक्षाभाजने च स्त्रीक्लीबः ।। २८ ।।