SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् [ 39 जम्भो जम्बीरः, कुसुम्भं कमण्डलुः महारजतं च, ककुभः वीणाप्रसेवः, कलभः करिपोतः, निभो व्याजः, अर्मः चक्षुरोगः, संक्रामः संक्रमश्च, जलतरणविशेषः ललामः शृङ्गपुच्छं हयमुखेऽन्यवर्णः पुण्ढः केतुश्च, हिमः तुषारः, हेमं स्वर्णः ।। २२ ।। उद्यमकामोद्यामाश्रमकुट्टिमकुसुमसंगमा । गुल्मः क्षेमक्षौमौ कम्बलिवाह्यो मैरेयतूयौं च ।। २३ ।। उद्यमः उत्साहः, कामः अभिलाषः, उद्यामः 'उद्यमोपरमौ' इति निपातनादवृद्धिनिषेधेऽपि अत एव निपातनादात्वमपि, पाश्रम: मुनिस्थानं ब्रह्मचर्यादिश्च, कुट्टिमः संस्कृतभूमिविशेषः, कुसुमं पुष्पे स्त्रीरजस्यपि च, नेत्ररोगे तु बाहलकात् क्लीबत्वमेव । सङ्गमः संगमः, गुल्मः विटपः प्रकाण्डं च, क्षमः कुशलं लब्धरक्षणं च, क्षौमं अट्टालकः अभ्यन्तरे प्राकारधारणार्थं खोमाख्याश्च । कम्बलिवाह्य गन्त्री, मैरेयः सीधुः, तूर्यं वाद्यम् ।। २३ ॥ पूयाऽजन्यप्रमयसमया राजसूयो, हिरण्यारण्ये संख्यं मलयवलयौ वाजपेयः कषायः । शल्यं कुल्याव्ययकवियवद्गोमयं पारिहार्यः, पारावारातिखरशिखरक्षत्रवस्त्रोपवस्त्राः ॥ २४ ॥ पूयः क्लिन्नासृग, अजन्यः उत्पातः, प्रमयः मरणं, समयः कालः, अन्यत्र पुसि, राजसूय: ऋतुः, हिरण्यं स्वर्ण, अरण्यः अटवो. संख्यः पाहवः, मलयः गिरिविशेषः, वलय: कटकं, वाजपेयः ऋतुभेदः, कषायो रसभेदेऽङ्गरोगे च, शल्यं देहगतं शस्त्रादि, कुल्यः अस्थि, अव्ययं स्वरादि, कवियः खलिनं, गोमयः गोशकृत्, पारिहार्यं वलयम् । अथ रान्ता: पारं परतीरं समाप्तिश्च, अवारं अक्तिीरं, अतिखरः औषधविशेषः, शिखरं शलवक्षाग्रं पूलकः पक्वदाडिमबीजाभमाणिक्यं च, क्षत्र क्षत्रियः, वस्त्रां वासः, उपवस्त्रं उपवासः, यत्तूपवस्ता प्राप्तोऽस्येति कृतवाणि औपवस्त्रमुपवासः तत्संयुक्तरान्तत्वान्नपुंसकम् ।। २४ ।। अलिञ्जरः कूबरकूरबेरनोहारहिजीरसहस्रमेढ़ाः । संसारसीरौ तुबरश्च सूत्रशृङ गारपद्रान्तरकर्णपूराः ॥ २५ ॥ अलिञ्जरः मणिकः, कूबरं युगन्धरः, कूर: प्रोदनं, बेरो देहः, नीहारः हिमम्, हिजीरः अन्दुकः, सहस्र दशशतानि, मेण्ढ़ः शफः, संसारः जगत्, सीरं हल, तुबरः कषायः, सूत्रः तन्तुः सूत्रणा च, शृङ्गारो रसविशेषः, पद्म ग्रामस्थानविशेषः, अन्तरं मध्यं छिद्रं विनार्थश्च अवधिः अवकाशः विशेषश्च, कर्णपूरः अवतंसः नीलोत्पलं च ।। २५ ।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy