SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३२८ ] बृहद्वृत्ति - लघुन्याससंकलिते [ पाद. ३ सू० ७९-८२ कृष्णा भूमि: कृष्ण भूमम्, कृष्णभूमो देशः । भूमोऽसंख्यात एकार्थ इति पाण्डुभूमादेर्नपुंसकत्वम् । संख्यादिभ्य इति किम् ? सर्वभूमिः । ७८ । उपसर्गादध्वनः । ७. ३. ७९ ॥ उपसर्गात् धातुयोमे यः प्रादिरुपसर्गसंज्ञां लभते तस्मात्परादध्वनोत् समासान्तो भवति । प्रगतमध्वानं प्राध्वं शकटम्, प्राध्वो रथः, उपकान्तमध्वानमुपाध्वम् निरध्वम्, अत्यध्वम् । ७९ । समवान्धात्तमसः ॥ ७. ३.८० ॥ सम् अब अन्य इत्येतेभ्यः परो यस्तमसुशब्दस्तदन्तात्समासादत् समासान्तो भवति । संततं तमः संततं तमसा संततं तमोऽस्मिन्निति वा संतमसम् । अवहीनं तमोऽवहीनं तमसा अवहीनं तमोऽस्मिन्निति वा अवतमसम् । अन्धं करोतीत्यन्धम्, अन्धं च तत्तमश्च अन्धं तमोऽस्मिन्निति वा अन्धतमसम् अन्धश्च तमश्चेति अन्धतमसम् अन्धतमसे वा । ८० । न्या० स० सम० – अन्ध करोतीति अन्धण् इत्येतस्याचि ततः करोत्यर्थे णिचि ततोऽचि सामानाधिकरण्यम् । तप्तान्वबादहसः ॥ ७. ३. ८१ ॥ रह इति अप्रकाश्यं विजनं वा । तप्त, अनु, अव इत्येतत्पूर्वी यो रहः शब्दस्तदन्तान्तादश्समासादत्समासान्तो भवति । तप्तं तप्ताय इवानधिगम्यं रहः तप्तरहसम्, तप्तं रहोऽस्येति तप्तरहसः, अनुगतं रहोऽनुगतं रहसा वा अनुरहसम्, अनुगतं रहोऽस्येति अनुरहसः । अवहीनं रहोऽवहीनं रहसा वा अवरहसम्, अवहीनं रहोऽस्येत्यवरहसः । ८१ । प्रत्यन्ववात्सामलोम्नः ॥ ७. ३. ८२ ॥ प्रति अनु अव इत्येतेभ्यः परो यो सामन्लोमन् शब्दौ तदन्तात्समासादत्समासान्तो भवति । प्रतिगतं साम प्रतिसामम्, प्रतिगतं सामास्य प्रतिसामः एवमनुसामम् अनुसामः, अवसामम् अवसामः, प्रतिलोमम् प्रतिलोमः, अनुलोमम् अनुलोमः, अवलोमम्, अवलोमः । अव्ययीभावे तु परत्वाद्विकल्पः । साम साम प्रति सानोऽभिमुखं वा प्रतिसाम, प्रतिसामम् । साम सामानु साम्नः समीपं साम्ना तुल्यायामं वा अनुसाम, अनुसामम् एवं प्रतिलोम, प्रतिलोमम्, अनुलोम, अनुलोमम् । प्रत्यन्ववादिति किम् ? निःषाम
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy