SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ पाद. ३. सू, ७६-७८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३२७ 'तिष्ठद्गवादित्वादव्ययीभावः । उभाबाह उभयाबाह्वित्यत्र निपातनादिलपि स्थानिवद्भावादिजन्तत्वेनाच्ययीभावसंज्ञा। विभक्त्यलुक पादस्य पद्भावः समानस्य सभावश्चेत्यादि सर्व निपातनात् सिद्धम् । क्रियाविशेषणाच्चान्यत्र न भवति । द्वौ दण्डावस्यां शालायां । द्विदण्डा, द्विमुसला । ७५ । न्या० स० द्विद-उभयापाणीति उभस्थ उभयोऽद्वित्वे इत्यनुपदकारसूत्रं ततः उभयः पाणिः उभयो वा पाणयो यस्मिन्नित्येकत्वे बहुत्वे एव वाक्यं कार्य, एषमन्यत्राऽपि । ऋकपू-पथ्यपोऽत् ॥ ७. ३. ७६ ॥ ऋच्, पुर, पथिन्, अप् इत्येतदन्तात्समासादत् अकारः समासान्तो भवति । ऋ चोऽर्धम् अर्धर्चः, ऋचः. समोपमुपर्चम्, सप्तर्च सूक्तम्, उच्चारितर्चः । पुर्, श्रियाः पू: श्रीश्चासौ पूश्चेति वा श्रीपुरम्, पिष्टपुरम्, त्रिपुरम्, स्फोतपुरो देशः । पथिन्, जलपथः, स्थलपधः, उपपथम्, प्रतिपथम्, विशालपथं नगरम्, अप्, द्विर्मता आपोऽस्मिन् द्वीपम्, समीपम्, प्रतीपम् बह्वपं तडागम्, पुरपथशब्दाभ्यां सिद्ध पुर् पथिन् इत्येतयोरुपादानमेतद्विषये प्रयोगनिवृत्त्यर्थम् । ७६ । . न्या० स० ऋक्तः०–त्रिपुरमिति तिसृणां पुरां समाहारः, उत्तरपदस्यादन्तस्वाभावात् स्त्रीत्वाभावः, किंतु अन्यस्तु सर्वो नपुंसकः प्रयोगनिवृत्त्यर्थमिति समासान्तविषये व्यञ्जनान्तयोः प्रयोगो न भवतीत्यर्थः । . धुरोऽनक्षस्य ॥ ७. ३. ७७ ।। धुरन्तात्समासादत् समासान्तो भवति सा चेद्धः अक्षसंबन्धिनी न भवति । राज्यधुरा, रणधुस द्विधुरी, त्रिधुरी, उपधुरम् महाधुरं शकटम् । अनक्षस्येति किम् ? अक्षधूः दृढधूरक्षः । ७७ । न्या० स० धुरो० -अक्षसंबन्धिनी नेति शब्दद्वारकमेतन्नार्थद्वारकम, सेन महाधुरं शकटमिति सिद्धम् । द्विधुरीत्यादि द्वयोः धुरोः समाहारः, तिसृणां धुरां समाहारः, अन्यस्तु सर्वो नपुंसक इति वचने सत्यपि तद्बहुलमिति स्त्रीत्वे 'द्विगोः' २-४-२२ इति डीः । संख्यापाण्डूदकृष्णाद्भूमेः ७. ३. ७८ ॥ संख्यावाचिभ्यः पाण्डु उदच् कृष्ण इत्येतेभ्यश्च नामभ्यः परो यो भूमिशब्दस्तदन्तात्समासादसमासान्तो भवति । द्वयोभूम्योः समाहारो द्विभूमम्, त्रिभूमम् द्वे भूमो अस्य द्विभूमः त्रिभूमः प्रासादः पाण्डुभूमिः पाण्डभूमम् पाण्डुभूमो देशः, उदीची भूमिः उदगभूमम्, उदग्भूमो देशः,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy