________________
६० ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-४७-५०
दयायास्कासः॥ ३. ४. ४७॥
दय , अय् , आस् , कास् , इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो भवति आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । दयांचके, दयांबभूव, दयामास, पलायांचक्रे, पलायांबभूव, पलायामास, आसांचक्र, आसांबभूव, आसामास, कासांचके, कासांबभूव, कासामास ॥४७।।
गुरुनाम्यादेरनृच्छ्र्णोः ॥ ३. ४. ४८ ॥
गुरुनामी प्रादिर्यस्य तस्माद्धातोऋच्छृणु जितात् परस्याः परोक्षायाः स्थाने आमादेशो भवति, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । ईहांचके, ईहांबभूव, ईहामास, उञ्छांचकार. व्युछांचकार, उब्जांचकार । गुरुग्रहणं किम् ? इयेष । नामिग्रहणं किम् ? आनर्च । आदिग्रहणं किम् ? निनाय । ईङस्तु व्यपदेशिवद्धावाद्भवति-अयांचक्र, अयांबभूव, अयामास, ईषतुः ईषुः इत्यत्र * संनिपातलक्षणो विधिरनिमित्तं तद्विधातस्य * इति न भवति । अनुच्छूोरिति किम् ? आनच्छ, प्रोणु नाव । अत एव ऋच्छप्रतिषेधासंयोगे परे पूर्वो गुरुरिति विज्ञायते ॥४८॥
न्या० स० गुरुनाम्यादे०-गुरुग्रहणं नामिनो विशेषणं न धातोः, धातुविशेषणे हि इयेष इत्यत्रापि स्यात् । व्यपदेशिवद्भावादिति-धातुपारायणकृता तु व्यपदेशिवद्भावो नेष्टस्तन्मते ईये इत्येव भवति ।
जाग्रुषसमिन्धेर्नवा ॥ ३. ४. ४१ ॥
जाग , उष, सम्पूर्व इन्ध इत्येतेभ्यो धातुभ्यः परस्या: परोक्षायाः स्थाने आमादेशो वा भवति, आमन्ताच्च परे कृम्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । जागरांचकार, जागरांबभूव, जागरामास, जजागार, ओषांचकार, उवोष, समिधांचक्र, समीध । समग्रहणं किम् ? इन्धांच, प्रेन्धांचक । सोपसर्गादिन्धेराम् न भवत्येवेति कश्चित , अन्ये तु परोक्षायामिन्धेरामन्तस्यैव प्रयोग इत्याहुः । समोऽन्यत्रापि इन्धेरामविकल्प इत्यन्यः । इन्धांचके ईधे इति ।।४।।
भी-ही-भृ-होस्तिव्वत् ॥ ३. ४. ५० ॥
भी, ही, भृह इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो वा भवति, स च तिव्वत् अामन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । विभयांचकार, बिभयांबभूव, बिभायमास, बिभाय, जिह्रयांचकार, जिलाय, बिभरांचकार, बभार, जुहवांचकार, जुहाव, जुहवांचके, जुहुवे । तिव्वद्भावाद्वित्वमित्वं चेति ॥५०॥.
न्या० स० भीह्री०-जुहवांचके इति-अत्र 'क्य: शिति' ३-४-७० इति क्यो न भवति, शितीति सामान्योक्तेऽपि क्यस्य भावे कर्मणि च विधानाच्छित प्रत्ययोऽपि भावकर्म