SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ सूत्र-५२७-५३५ ] स्वपज्ञोणादिगणसूत्रविवरणम् र्भावे, जनित्व:-लोकः, माता-पितरो, द्यावा-पृथिव्यो च । जनित्वं-कुलम् । एघि वृद्धौ, एघित्वः-अग्निः, समुद्रः, शैलश्च पां पाने, पेत्वम्-तप्तभूमिप्रदेशः, अमृतं, नेत्रं, सुखं, मानं च ।। ५२६ ।। पा-दा-वम्यमिभ्यः शः॥ ५२७ ॥ एभ्यःशः प्रत्ययो भवति । पांक रक्षणे, पाशः-बन्धनम् । डुदांग्क दाने, दाश:कैवर्तः । टुवम् उगिरणे, वंश:-वेणुः । अम गतौ, अंश:-भागः ॥ ५२७ ॥ कृ-वृ-भृ-बनिभ्यः कित् ।। ५२८ ।। एभ्यः कित् शः प्रत्ययो भवति । डुकृग करणे, कृशः-तनुः। वृग्ट वरणे, वृशंशृङ्गबेरम्, मूलकं, लशुनं च । टुडुभृगक पोषणे च, भृशम् - अत्यर्थम् । वन भक्तौ, वश:आयत्तः ।। ५२८॥ कोर्वा ॥ ५२६ ॥ कुङ शब्दे, इत्यस्मात् शः प्रत्ययो भवति, स च किद्वा भवति । कुश:-दर्भः । कोशः-सारम् , कुड्मलं च ।। ५२६ ।। क्लिशः के च ।। ५३०॥ क्लिशीश विबाधने, इत्यस्मात् शः प्रत्ययो भवत्यस्य च के इत्यादेशो भवति । केशाः मूर्धजाः ।। ५३० ।। उरेरशक् ॥ ५३१॥ उर गतौ इत्यस्मात् , सौत्राद् अशक् प्रत्ययो भवति । उरशः ऋषिः ।। ५३१ ।। कलेष्टित् ।। ५३२॥ कलि शब्द-संख्यानयोः, इत्यस्मात् टिद् अशक् प्रत्ययो भवति । कलशः-कुम्भः । कलशी दधिमन्थनभाजनम् ॥ ५३२ ।। पलेराशः ॥ ५३३॥ पल गती, इत्यस्माद् आशः प्रत्ययो भवति । पलाश:-ब्रह्मवृक्षः ।।५३३।। कनेरीश्चातः॥ ५३४॥ कनै दीप्त्यादौ, इत्यस्माद् आशः प्रत्ययो भवति, ईकारश्चाकारस्य भवति । कोनाशः-कर्षकः, वर्णसङ्करः, कदर्यश्च, तथा लुब्धः कीनाशः स्यात् कीनाशोऽप्युच्यते कृतघ्नश्च । योऽश्नात्यामं मांसं स च कोनाशो यमश्चैव ॥ ५३४ ॥ कुलि-कनि-कणि-पलि-वडिभ्यः किशः॥ ५३५ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy