SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४१८ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ सूत्र-५१९-५२६ च । कुडवः - मानम्, लत्वे कुलवः स एव, नालीद्वयं च । कुरत् शब्दे, कुरवः - पुष्पवृक्षजातिः । मुरत् संवेष्टने, मुरव:-मानविशेषः, वाद्यजातिश्च । ष्ठां गतिनिवृत्तौ, स्थवःअजावृषः ।। ५१८ ॥ कैरव-भैरव-मुतव-कारण्डवादीनवादयः || ५१६ ॥ कैरवादयः शब्दा अवप्रत्ययान्ता निपात्यन्ते । कृग्भृगोः कैर-भैरावादेशौ । कैरवंकुमुदम्, भैरवः- भर्गः, भयानकश्च । मिनोतेर्मुद च, मुतवः - मानविशेषः । कृगाण्डोऽन्तो वृद्धिश्च, कारण्डवः - जलपक्षी । आङपूर्वाद् दीङो नोऽन्तश्च । आदीनवः- दोषः । आदिग्रहणात् कोद्रवः- कोटवादयोपि भवन्ति ॥ ५१९ ।। शृणातेरावः || ५२० ॥ शृश् हिंसायाम्, इत्यस्माद् आवः प्रत्ययो भवति । शराव :- मल्लकः ।। ५२० ।। प्रथेरिवट् पृथू च || ५२१ ॥ प्रथिषु प्रख्याने, इत्यस्मादिवट्प्रत्ययो भवत्यस्य च पृथ् इत्यादेशो भवति । पृथिवीभूः ।। ५२१ ।। पलि - सचेरिवः ।। ५२२ ।। पलण् रक्षणे, षचि सेवने, इत्याभ्यामिवः प्रत्ययो भवति । पलिवः - गोप्ता । सचिवः सहायः ।। ५२२ ।। स्पृशेः श्वः पार् च ॥ ५२३ ॥ स्पृशंत् संस्पर्श, इत्यस्मात् श्वः प्रत्ययो भवत्यस्य च पार इत्यादेशो भवति । पाश्वस्वाङ्गम्, समीपं च । पार्श्वः - भगवांस्तीर्थङ्करः ।। ५२३ ।। कुडि - तुडयडेरुवः । ५२४ ॥ एभ्य उवः प्रत्ययो भवति । कुड बाल्ये च कुडुवं प्रसृतहस्तमानं च । तुडत् तोडने, डुवम् अपनेयद्रव्यम् । अड उद्यमे, अडुवः -प्लवः ।। ५२४ ।। नी-हि- ध्यै ध्या-पा-दा-माभ्यस्त्वः ।। ५२५ ।। एभ्यः त्वः प्रत्ययो भवति । णीं‍ प्रापणे, नेत्वं द्यावा- पृथिव्यो, चन्द्रश्च । हुंक् दानादनयोः, होत्वं- यजमान, समुद्रश्च । इंण्क् गतौ, एत्वम् - गमनपरम् । ध्यें चिन्तायाम्, ध्यात्वं ब्राह्मणः । प्ङ वृद्धो, प्यात्वं- ब्राह्मणः समुद्रः, नेत्रं च । पां पाने, पात्वम् पात्रम् । डुदांग्क् दाने, दात्व:- आयुक्तः, यज्वा यज्ञश्च । मां माने, मात्वम् प्रमेयद्रव्यम् ।। ५२५।। कृ-जन्येधि- पाभ्य इत्वः ।। ५२६ || एभ्यः इत्व: प्रत्ययो भवति । डुकु ग् करणे, करित्व:- करणशीलः । जनैचि प्रादु
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy