SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ सूत्र-२०-२२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [३४३ हावक रणे, हेलिहिलः, हैलिहिलश्च-विलनशीलः । शेलिशिलः, शैलिशिलश्च । शुभि दीप्तौ शोभते पुनः पुनरिति-शोभुशुभः, शौभुशुभः । णुदंत् प्रेरणे, नुदति पुनः' पुनरिति-नोदुनुदः, नौदुनुदः । गुडत् रक्षायाम्, गुलति-भ्राम्यति पुनः पुनरिति-गोलुगुलः, गौलुगुलः । बुलण् निमज्जने, बोलयति पुनः पुनरिति-बोलुबुलः । बौलुबुलः । तत्तद्धात्वर्थास्तच्छीला अनुवादविशेषा वैते ॥ १९॥ . णेलु प् ॥२०॥ धातोरप्रत्ययसन्नियोगे बहुलं णेलुप् भवति । वज्र धारयतीति-वज्रधरः-इन्द्रः। एवं-चक्रधरः-विष्णुः, भूधर:-अद्रिः, जलधरः-मेघः । बाहुलकात् प्रत्ययान्तरेऽपि,-देवयतीति -दिव-द्यौः, व्योम, स्वर्गश्च । पुण्यं कारयन्तीति पुण्यकृतो देवाः, एवं-पर्ण शोषय. तीति पर्णशुट । "वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे। तत: पर्णरुहः पश्चात् ततो देवः प्रवर्षति ।। १ ।। तथा-महतः कारयांचक्रुराक्रन्दान् इति प्राप्ते ‘महतश्चक्रुराक्रन्दान्' इति भवति । "महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः । घोषयांचऊरित्यर्थः ।। २० ।। भीण-शलि-बलि-कल्यति-मय॑र्चि-मृजि-कु-तु-स्तु-दा-धा-रा-त्रा-का-पा-निहा नशुभ्यः कः ॥२१॥ एभ्यः कप्रत्ययो भवति । जिभीक् भये, बिभेति दुन्दुभात् परस्माच्च-भेकः-मण्डूकः, कातरश्च बिभेति वायोः-भेक:-मेघः । 'इंण्क् गतौ' एत्यद्वितीय इतिएकः असहायः, संख्या, प्रधानम्, असमानम्, अन्यश्च । पल फल शल गती, शलन्त्यात्मरक्षणाय तमिति शल्कःशरणम् शलति त्यक्त बहिरिति-शल्कं गृहीतरसं शकलम् , शल्कः-काष्ठत्वक मलिनं च काष्ठमुद्गरः करणं च । वलि संवरणे, वल्कः-दशनः, वासः, त्वक् च । कलि शब्द-संख्यानयोः कल्क:-कषायः दम्भः, पिष्टपिण्डश्च । अत सातत्यगमने, अत्कः-आत्मा वायः व्याधितः, चन्द्रः, उत्पातश्च । मर्चः सौत्रो धातुः प्राप्तौ मर्कः, देवदारुः, वायुः, दानवः, मनः, पन्नगः, विघ्नकारी च । “च-जः क-गम्" (२-१-८६) इति कत्वम् । अर्च पूजायाम अर्क:-सर्यः, पुष्पजातिः, का (झा) टजातिश्च । मुजोक शुद्धौ, मार्कः-वायः। कंक शब्दे, कोक:-चक्रवाकः। तुक् वृत्ति-हिंसा-पूरणेषु, तोकम्-अपत्यम् । ष्टुंगा स्तुतौ, स्तोकम्-अल्पम् । डुदांग्क दाने, दाकः, यजमानः, यज्ञश्च । डुधांगा धारणे च, धाक:ओदनः, अनड्वान्, अम्भः, स्वम्भश्च । रांक दाने, राकः-दाता, अर्थः, सूर्यश्च, राकापौर्णमासी, कुमारी रजस्वला च । जङ पालने त्राकः-धर्मः शरणस्थानीयश्च । के शब्दे, काकः-वायसः । पां पाने, पांक रक्षणे वा, पाकः-बालः, असुरः, पर्वतश्च । ओहांक त्यागे, निहाक:-नि:स्नेहः, निर्मोकश्च, निहाकः-गोधा । शुं गतौ, न शवतीति-अशोकः ॥२१॥ विचि-पुषि-मुषि-शुष्यवि-सु-वृ-शु-सु-भू-धू-मू-नी-वीभ्यः कित् ॥ २२॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy