SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३४२ ] स्वोपज्ञोरणादिगणसूत्रविवरणम् [ सूत्र-१५-१९ विलेखने, हलहलः। कलि शब्द-संख्यानयोः, कलकलः। मलि घारणे, मलमल: । घटिए चेष्टायाम्, घटघटः । वद व्यक्तायां वाचि, वदवदः । पदिच् गतौ, पदपदः । ऋदन्तः डुकग करणे, करकरः । मृत् प्राणत्यागे, मरमरः । दृङत् आदरे, दरदरः । सृङ्गतो, सरसरः । वृगट वरणे वरवरः । अनुकरणशब्दा एते ।। १४ ।। मषि-मसेर्दा ॥१५॥ आभ्यामः प्रत्ययो भवति, सरूपे च द्वे रूपे भवत', पूर्वस्य चान्तोऽकारो वा भवति । मष हिंसायाम्, मषमषः, मष्मषः । मसैच् परिमाणे, मसमसः, मस्मसः ।। १५ ।। हृ-सृ-फलि-कषेरा च ॥१६॥ एभ्यो अः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य चान्त आकारो भवति । हग हरणे, हरति-नयति शस्त्राण्यस्खलन् लक्ष्य-हराहरः योग्याचार्यः । सृगतो, घावति वायुना नीयमानः समन्तात् सरासरः-सारङ्गः । फल निष्पत्ती, फलति निष्पादयति नानाविधानि पुष्पफलानि-फलाफलम्-अरण्यम् । कष हिंसायाम्, कषति विदारयति-कषाकषःकृमिजातिः ।। १६ ॥ इदुदुपान्त्याभ्यां किदिदुतौ च ॥ १७॥ इकारोपान्त्यादुकारोपान्त्याच्च कित् अः प्रत्ययो भवति, स्वरूपे च द्वे रूपे भवतः, पूर्वस्य च यथासंख्यमिकारोकारौ चान्तौ भवतः। किलत् श्वैत्य-क्रीडनयोः, किलिकिलः । हिलत् हावकरणे, हिलिहिल: । शिलत् उञ्छे, शिलिशिलः छुरत् छेदने, छुरुच्छूरः । मुरत् संवेष्टने, मुरुमुरः। घुरत् भीमार्थ-शब्दयोः, घुरुधुरः । पुरत् अग्रगमने, पुरुपुरः । सुरत् ऐश्वर्य-दीप्त्योः , सुरुसुरः, । कुरत् शब्दे, कुरुकुरः । चुरण स्तेये, चुरुचुरः । हुल हिंसा-संवरणयोश्च, हुलुहुलः । गुजत् शब्दे, गुजुगुजः । गुडत् रक्षायाम् गुडुगुडः । कुटत् कौटिल्ये, कुटुकुटः । पुटत् संश्लेषणे, पुटुपुट: । कुणत् शण्दोपकरणयोः, कुणकुणः । मुणत् प्रतिज्ञाने मुणुमुणः । अनुकरणशब्दा एते ॥ १७ ॥ . जजल-तितल-काकोली-सरीसृपादयः ॥ १८॥ एते अप्रत्ययान्ता निपात्यन्ते । जल घात्ये, अस्य द्वित्वे पूर्वस्य जभावः, जजलः, यस्य जाजलिः पुत्रः। तिलत् स्नेहने, अस्य द्वित्वे पूर्वस्य च तिभावे घातोरिकारस्य अकारे तितलः । कुल बन्धु-संस्त्यानयोः, अस्य दित्वे पूर्वस्य च काभावे-काकोली, क्षीरकाकोलीति च वल्लीजातिः । सृप्ल गतो, अस्य द्वित्वे गुणाभावे पूर्वस्य च सरीभावे-सरीसृपः-उरगजातिः । आदिग्रहणाद् यथादर्शनमन्येऽपि ।। १८ ।। बहुलं गुण-वृद्धी चादेः ॥ १६ ॥ धातोः कित् अः प्रत्ययो भवति, सरूपे च द्वे रूपे भवतः, पूर्वस्य चेकारवन्तौ भवतः, यथादर्शनं च गुणवृद्धी भवतः। केलिकिलः, कैलिकिलश्च-हसनशीलः। हिलत्
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy