SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३२२ ] बृहद्वृत्ति लघुन्यास संवलिते [ पाद- ४, सूत्र - ४३ लुनोथ; प्रधीध्वमधीध्वमित्येव यूयमधीध्वे, अधीष्वाधीष्वेत्येव यूयमधीध्वे । तथा लुनीत लुनीतेत्येव यूयमलाविष्ट, लुनीहि लुनीहीत्येव यूयमलाविष्ट । श्रधोध्वमधीध्वमित्येव यूयमध्यैवम्, अधीष्वाधीष्वेत्येव यूयमध्यगीढ्वम् । एवं ह्यस्तन्यादिष्वप्युदाहार्यम् । यथाविधीति किम् ? लुनीहि लुनीहीत्येवायं लुनाति, छिन्नत्ति लूयते वेति धातोः संबन्धे मा भूत् । श्रघीष्वाधीष्वेत्येवायमधीते, पठति अधीयते वेति धातोः संबन्धे मा भूत् । नीत लुनीतेत्येव यूयं लुनीथ, छिन्येति धातोः संबन्धे मा भूत् । श्रधीध्वमधीध्वमित्येव यूयमधीध्वे, पठति धातोः संबन्धे मा भूत् । लुनीहि लुनीहीत्यादौ च भृशाभोक्ष्ण्ये द्विर्वचनम् । ननु च भृशाभीक्ष्ण्ययोर्यङपि विधीयते न तु तत्र द्विर्वचनम्, इह तु द्विर्वचनमित्यत्र को हेतुः ? उच्यते - यङ् स्वार्थिकत्वात् प्रकृत्यर्थोपाधी मृशाभीक्ष्ण्ये समर्थोऽवद्योतयितुमिति तदभिव्यक्तये द्विर्वचनं नापेक्षते, हि स्वादयस्तु-कर्तृ कर्म- भावार्थत्वेनास्वार्थिकत्वादसमर्थाः प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये अवद्योतयितुमिति तदवद्योतनाय द्विर्वचनमपेक्षन्ते इति ॥ ४२ ॥ | न्या० स०- भृशाभीक्ष्ण्ये लुनीहि लुनीहीत्येवायमिति - इति शब्दः संबन्धोपादानार्थोऽन्यथाऽसत्त्वभूतार्थवाचिनोराख्यातयोः परस्परेण संबन्धो नावगम्येत । न तु तत्र द्विर्वचनमिति - किंतु भृशाभीक्ष्ण्यनिरपेक्षं 'सन्यङश्व' ४-१-३ इत्यनेन । प्रचये नवा सामान्यार्थस्य ।। ५. ४. ४३ ॥ भृशा - sset यथाविधीति च नानुवर्तते । प्रचय:- समुच्चयः, स्वतः साधनभेदेन वा भिद्यमानस्य एकत्रानेकस्य धात्वर्थस्याध्यावाप इति यावत्, तस्मिन् गम्यमाने सामान्यार्थस्य धातोः संबन्धे सति धातोः परौ हि-स्वौ, त-ध्वमौ च तद्युष्मदि वा भवतः । व्रीहीन् वप लुनीहि पुनीहीत्येव यतते चेष्टते समीहते, यत्यते चेष्टयते समीह्यते, पक्षे-हीन वपति लुनाति पुनातीत्येव यतते, यत्यते । देवदत्तोऽद्धि गुरुदत्तोऽद्धि जिनदत्तोऽद्धि इत्येव भुञ्जते, भुज्यते, पक्षे-देवदत्तोऽत्ति गुरुदत्तोऽत्ति जिनदत्तोऽतीत्येव भुञ्जते भुज्यते । ग्राममट वनमट गिरिमटेत्येवाटति घटते, अटयते घटघते, पक्षे - ग्राममटति वनमटति गिरिमयतीत्येवाटति घटते अटयते घटयते । सक्तून् पिब, धानाः खाद, ओदनं भुङ्क्ष्वेत्येवाभ्यवहरति श्रभ्यवह्रियते, पक्षे-सक्तून् पिबति, धानाः खादति, ओदनं भुङ्क्ते इत्येवाभ्यवहरति श्रभ्यवह्रियते । सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवाधीते पठति अधीयते पठ्यते, पक्षेसूत्रमधीते, नियुक्तिमधीते, भाष्यमधीते, इत्येवाधीते पठति, प्रधीयते पठद्यते । त-ध्वमौ तद्युष्मदि- व्रीहीन् वपत, लुनीत, पुनीतेत्येव यतध्वे, चेष्टध्वे समीहध्वे; व्रीहीन् वप लुनीहि पुनीहीत्येव यतध्वे चेष्टध्वे, समीहध्वे, पक्षे व्रीहीन् वपथ, लुनीथ, पुनीथेत्येव यतध्वे चेष्टध्वे समीहध्वे । ग्राममटत वनमटत गिरिमटतेत्येवाटथ घटध्वे, ग्राममट वनमट गिरिमटेत्येवाटथ घटध्वे, पक्षे-ग्राममटथ, वनमटथ, गिरिमटथेत्येवाटथ घटध्वे । सूत्रमधीध्वं निर्यु क्तिमधीध्वं भाष्यमधीध्वमित्येवाधीध्वे पठथ, सूत्रमधीष्व नियुक्ति
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy