SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-४७-५३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२८५ न्या० स०-हनो घा-वध इति-यङ लुबन्तस्यापि वधो घात इत्येव भवति । व्यध-जप-मद्भ्यः ॥ ५. ३. ४७॥ एभ्योऽनुपसर्गेभ्यो भावाकोरल् भवति । बहुवचनाद् भाव इति निवृत्तम् । व्यधः, जपः, मदः । अनुपसर्गादित्येव ? आव्याधः, उपजापः, उन्मादः ।।४७।। नवा कण-यम-हस-स्वनः ॥ ५.३.४८॥ __ अनुपसर्गभ्य एभ्यो भावाकोरल् वा भवति । क्वणः, क्वाणः; यमः, यामः; हसः, हासः; स्वनः, स्वानः । अनुपसर्गादित्येव ? .प्रकाणः, प्रयामः, प्रहासः, विष्वाणः । अप्राप्तविभाषेयम् ॥४८॥ आङो रु-प्लोः ॥ ५. ३. ४१॥ ... आड: पराभ्यां रु-प्लुभ्यां भावाऽकोरल वा भवति । आरवः, आरावः; आप्लवः, आप्लावः। प्राङ इति किम् ? विरावः, विप्लवः । रौतेजि प्लवतेरलि नित्यं प्राप्ते विकल्पः ॥४९॥ वर्षविघ्नेवाद् ग्रहः॥ ५.३.५०॥ अवपूर्वात् ग्रहेवर्षविघ्ने वाच्ये भावाऽकोरल् वा भवति । प्रवग्रहः, प्रवग्राहः; वृष्टेः प्रतिबन्ध इत्यर्थः । वर्षविघ्न इति किम् ? अवग्रहः पदस्य, अवग्रहोऽर्थस्य ॥५०॥ प्राद् रश्मि-तुलासूत्रे ॥ ५. ३. ५१॥ . प्रपूर्वाद् ग्रहे रश्मी तुलासूत्रे चार्थे भावाऽकर्बोरल् वा भवति । प्रगृह्यत इति-प्रग्रहः, प्रगाह; अश्वादेः संयमनरज्जुस्तुलासूत्रं चोच्यते, अन्यस्तु प्रग्रहः ॥५१॥ वृगो वस्त्रे ॥ ५. ३. ५२ ॥ प्रपूर्वाद् वृणोतेर्वस्त्रविशेषे वाच्ये भावाऽकोरल् वा भवति । प्रवृण्वन्ति तमिति-प्रवरः, प्रावारः; "धञ्युपसर्गस्य बहुलम्" (३-२-८६) इति दीर्घः । अन्ये तु प्रापूर्व एव वृणोतिः स्वभावाद् वस्त्रविशेषे वर्तते, तेन प्रावारः प्रावरः इति भवति । वस्त्र इति किम् ? प्रवरो यतिः ॥५२॥ उदः श्रेः॥ ५. ३.५३ ॥ उत्पूवाच्छ्रर्भावाऽकोरल् वा भवति । उच्छ्रयः, उच्छ्रायः । नित्यमलि प्राप्ते विकल्पः॥५३॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy