SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २७८ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद-३, सूत्र-१६-१८ भाववचना घञ्-क्त्यादयस्ते क्रियायां क्रियार्थायामुपपदे वय॑त्यर्थे वर्तमानाद् धातोर्भवन्ति । क्रियार्थोपपदेन तुमा मा बाधिषतेति वचनम् , असरूपविध्यभावस्य ज्ञापितत्वात् । पाकाय व्रजति, पक्तये व्रजति, पचनाय व्रजति, पाचनायै व्रजति । वचनग्रहणाद् यो यथा विहितः स तथा भवति । "तुमोऽर्थे भाववचनात" (२-२-६१) इति चतुर्थी ।१५।। न्या० स०-भाववचनाः-वचनग्रहणादिति-यदि भावे इति क्रियेत तदा भावमात्र एव ये विहितास्त एव लभ्येरन् न सर्वे, वचनग्रहणे तु ये केचिद् भावं ब्रुवन्ति ते येन केनापि प्रकारेण भावं ब्रु वाणा गृह्यन्ते एव । पद-रुज-विश-स्पृशो घञ् ॥ ५. ३. १६ ॥ एभ्यो धातुभ्यो घञ् प्रत्ययो भवति, कृत्त्वात् कर्तरि । वय॑तीत्यादि निवृत्तम् । पद्यते पत्स्यते अपादि पेदे वा-पादः, एवं-रागः, वेशः, स्पर्शी व्याधिविशेषः, स्पर्शी देवदत्तः कम्बलस्य, घकारः कत्वगत्वार्थः । अकारो वृद्ध्यर्थः ।।१६।। न्या० स०-पदरज-वस्य॑तीत्यादि निवृत्तमिति-'पदरूज' ५-२-१६ इत्यादिप्रकृति नियंत्रितप्रत्ययोपादानात्, आदिशब्दाक्रिया क्रियार्थोपपदं च । केचिदुपतापे एव स्पृशेर्घअमिच्छन्ति तन्मतव्युदासार्थं स्पृशेरुदाहरणद्वयम् । सर्तेः स्थिर-व्याधि-बल-मत्स्ये ।। ५. ३. १७॥ सर्तेरेषु कर्तृषु पञ् भवति । स्थिरे-सरति कालान्तरमिति सारः स्थिरः पदार्थः, सालसारः, खदिरसारः, काय॑सारः । व्याध्यादौ-अतीसारो व्याधिः, सारो बलम्, विसारो मत्स्यः ।।१७।। भावा-कोः॥ ५. ३. १८ ॥ भावे वाच्ये कर्तृवजिते कारके च सर्वधातुभ्यो घञ् भवति । पचनं पाकः, एवं-रागः, त्यागः; प्रकुर्वन्ति तमिति-प्राकारः, एवं प्रासः, प्रसेवः, समाहारः, कारः, करणाधिकरणयोरनट तदपवादश्च व्यञ्जनान्तेभ्यो घज वक्ष्यते । दाशन्तेऽस्मा इति-दाशः, तालव्योपान्त्योऽयम् । आहरन्त्यस्मादित्याहारः। असंज्ञायामपिदायो दत्तः, लाभो लब्धः । 'कृतः कटो हृतो भारः' इत्यादौ बहुलाधिकारान्न भवति । प्रत्रिति पर्युवासेन कारकाश्रयणात संबन्धे न भवति देवदत्तस्य पच्यते। भावा-कर्कोरिति किम् ? पचः । भावो भवत्यर्थः साध्यरूपः क्रियासामान्य धात्वर्थः, स धातुनवोच्यते तत्रैव च. त्यादयः क्त्वातुममस्तव्यानीयादयश्च भवन्ति । यस्तु भावो धात्वर्थधर्मः सिद्धता नाम लिङ्गसंख्यायीगी स द्रव्यवद् धात्वर्थादन्यः, तत्रायं धादिविधिः, तेन तद्योगे लिङ्गवचनभेद: सिद्धो भवति-पाकः पाको पाकाः, पचनं पचने पचनानि, पक्तिः पक्ती पक्तय इति ॥१८॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy