SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २७६ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद ३, सूत्र-९-१२ न्या० स०-कदाको-अनद्यतनार्थवृत्तित्वादिति-अनद्यतन एव हिप्रत्ययविधानात् । भूते तु नित्यमिति-ये कदाहियोगे सर्वेषु कालेषु वर्तमानामिच्छन्ति तन्मतमऽपास्यमित्याह । किंवृत्ते लिप्सायाम् ॥ ५. ३.१ ॥ विभक्त्यन्तस्य डतर-डतमान्तस्य च किमो वृत्तं-किंवृत्तमिति वैयाकरणसमयः, तेन किंतरां कितमामिति न किंवृत्तम् । तस्मिन्नुपपदे प्रष्टुलिप्सायां गम्यमानायां वर्त्यत्यर्थे वर्तमानाद धातोर्वर्तमाना वा भवति, पक्षे भविष्यन्ती-श्वस्तन्यावपि भवतः । लन्धु. मिच्छा-लिप्सा। को भवतां भिक्षां ददाति दास्यति दाता वा, के के भवन्तो भोजयन्ति भोजयिव्यन्ति भोजयितारो वा, कतरो भवतोमिक्षां ददाति दास्यति दाता था, कतमो भवतां मिक्षां ददाति दास्यति दाता वा । किंवृत्त इति किम् ? भिक्षां दास्यति । लिप्सायामिति किम् ? कः सिद्धपुरं यास्यति ॥९॥ लिप्स्यसिद्धौ ॥५. ३. १० ॥ लब्धुमिष्यमाण ओदनादिलिप्स्यस्तस्मात् सिद्धौ-स्वर्गाद्यवाप्तिलक्षणायां गम्यमानायां वय॑त्यर्थे वर्तमानाद् धातोर्वो वर्तमाना भवति, पक्षे भविष्यन्ती-श्वस्तन्यावपि भवतः।. अकिवृत्तार्थोऽयमारम्मः। यो भिक्षां ददाति दास्यति दाता वा स स्वर्गलोकं याति यास्यति याता वा, लिप्स्याद् भक्ताव स्वर्गसिद्धिमाचक्षाणो दातारं प्रोत्साहयति ॥१०॥ न्या० स०-लिप्स्यसिद्धौ-यो भिक्षा ददातीति-अत्रोभयोक्यियोमिलितयोलिप्स्य- . सिद्धिरवगम्यते तेनोभयत्राप्यनेनैव वर्तमाना सिद्धा। पञ्चम्यर्थ हेतौ ।। ५. ३. ११॥ पञ्चम्यर्थः प्रैषादिस्तस्य हेतुनिमित्तमुपाध्यायागमनादि तस्मिन्नर्थे वय॑ति वर्तमानाद् धातोर्वर्तमाना वा भवति, पक्षे भविष्यन्ती-श्वस्तन्यावपि भवतः। उपाध्यायश्चेदागच्छति आगमिष्यति प्रागन्ता वा, अथ त्वं सूत्रमधीष्व, अथ त्वमनुयोगमादत्स्व; अत्र भविष्यदुपाध्यायागमनमध्ययनादिविषयस्य प्रेषस्यातिसर्गस्य प्राप्तकालतायाश्च हेतुर्भवति ॥११॥ ____ न्या० स०-पञ्चम्यर्थहे-प्रेषस्येत्यादि-न्यक्कारपूर्व प्रेषणं प्रेषः, अनुमतादेशदानमतिसर्गः, अवसरः प्राप्तकालता। सप्तमी चोर्धमौहर्तिके ।। ५. ३. १२ ।। ऊर्ध्व मुहूर्ताद् भव ऊर्ध्वमौहूर्तिकः "नाम नाम्ना०" (३-१-१८) इति समासः,
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy