SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र ५-८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२७५ वस्य॑त्यर्थे वर्तमानाद् धातोः परा भविष्यन्ती विभक्तिर्भवति । गमिष्यति, भोक्ष्यते ॥४॥ अनद्यतने श्वस्तनी ॥ ५. ३.५॥ न विद्यतेऽद्यतनो यत्र तस्मिन् वय॑ति धात्वर्थे वर्तमानात् धातो: श्वस्तनी विभक्तिभवति । कर्ता श्वः, कर्ता । अनद्यतन इति बहुव्रीहिः किम् ? व्यामिश्रे भविष्यन्ती मा भूव. अद्य श्वो वा गमिष्यति । कथं श्वो भविष्यति ? मासेन गमिष्यति ? पदार्थे भविष्यन्ती पश्चात् श्वःशब्देन योगः ॥५॥ न्या० स०-प्रनद्यतने श्वस्तनी-पदार्थे भविष्यन्तीति-पदं गमिष्यति क्रिया सार्थो यस्य धात्वर्थस्य तस्मिन् । परिदेवने ॥ ५. ३. ६ ॥ परिदेवनमनुशोचनम्, तस्मिन् गम्यमाने वस्यति धात्वर्थे वर्तमानाद् धातोःश्वस्तनी विभक्तिर्भवति । अनद्यतनार्थ प्रारम्भः । ___ इयं नु कदा गन्ता यवं पादौ निदधाति, अयं नु कदाऽध्येता य एवमनभियुक्तः । विशेष विधानात् कदा-कहिलक्षणा विमाषा बाध्यते ॥६॥ न्या० स०-परिदेवने-विभाषा बाध्यते इति-'कदाकह्यानवा' ५-३-८ इत्यर्थः । पुरा-यावतोवर्तमाना ॥ ५. ३. ७॥ .. पुरा-यावतोनिपातयोरुपपदयोर्वर्त्यति धात्वर्थे वर्तमानाव् धातोर्वर्तमाना विभक्ति पुरा भुङ्क्ते, यावद् भुङ्क्ते । भविष्यदनद्यतनेऽपि परत्वाद् वर्तमानव-पुरा श्वो भुङ्क्ते, यावच्छ्वो व्रजति । लाक्षणिकत्वाविह न भवति-महत्या पुरा जेष्यति प्रामम्, यावद् दास्यते तावद् भोक्ष्यते, यत्परिमाणमित्यर्थः ।।७।। न्या० स०-पुरायावतो-पुराभुङ्क्ते इति-पुरेति क्रियाविशेषणं कालविशेषणे वा सप्तमी 'कालाध्व' २-२-२३ इति कर्मसंज्ञायामऽम् वा कर्तृ विशेषणे प्रथमा वा। कदा-कोर्नवा ॥ ५. ३. ८ ॥ कदा-कोरुपपदयोर्वस्य॑त्यर्थे वर्तमानाद् धातोर्वर्तमाना वा भवति, पक्षे भविष्यन्ती-श्वस्तन्यावपि भवतः। __कदा भुजते, कवा मोक्ष्यते, कदा मोक्ता; कहि भुङ्क्ते, कहि भोक्ता, कहि भोक्ष्यते; इति । कहिशब्दस्यानद्यतनार्थवृत्तित्वान्न प्राप्नोति, श्वो गमिष्यतीत्यादिवत तु भविष्यति । भूते तु नित्यं परोक्षादय:-कदा बुभुजे, कदा भुक्तवान् ; कहि बुभुजे, कहि भुक्तवान् ।।८।। भवति।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy